________________
१-देवतत्त्वम् गा-२१
गुरुपूआकरणरई सुस्सूसाइगुणसंगओ चेव । णाया TS हिगयविहाणस्स धणियमाणापहाणो य ।।
३१
'अहिगारि०' त्ति, 'गुरुपूअ० ' त्ति । अत्रोत्सर्गत ईदग्गुणो गृहस्थः प्रायोऽधिकारी देवादिद्रव्यवृद्धिकर्ता जिनैरुक्तः तद् यथा कीदृग् गृहस्थः ? १ - सुखस्वजनोऽनुकूलकुटुम्बादिवर्गसहितः २-वित्तवान् न्यायार्जितऋद्धिमान्, ३- युक्तो राजसत्कारादियोग्यः, 'प्रत्यनीकादिनाऽपरिभूतः' इति यावत्, ४-कुलजः सद्वंश्यः, कृतप्रतिज्ञादिनिर्वाहकः ५ - अक्षुद्रो दानशौण्डः, ६ - धृतिबलिकश्चित्तसमाधानलक्षणसामर्थ्ययुक्, ७-मतिमान् स्वतः प्रशस्तधीमान्, तथा ८ - धर्मासक्तः, ९- गुरुभक्तिरतः 'पूजनीयसेवापरायणः' इत्यर्थः, १०-शुश्रूषादिगुणैः संगतो विवेकी इत्यर्थ:, ११ - ज्ञाता विद्वान्, प्रस्तुतविधानस्य चैत्यद्रव्यादिवृद्धिविध इत्यर्थः । १२ - आज्ञाप्रधान आगमपरतन्त्रः, अयं भावः - ईदृशः श्रद्धावतः सानुबन्धसत्फलाश्चैत्यद्रव्यादिवृद्धिव्यवहाराः सुसाध्याः स्युः, तत्प्रतिकूला भक्षणादिदोषा अपि निवार्याः स्युः । विसदृशस्तु दुःसाध्या एव। ततो यस्य यथा सामर्थ्यं स तत्र तथा प्रवर्तत इति । । ५, ६ ।।
* पञ्चाशके-७/५ *
xxx तथा गुरवः पूज्या लौकिका लोकोत्तराश्च, लौकिकाः पित्रादयो वयोवृद्धाश्च, लोकोत्तरास्तु धर्माचार्यादयस्तेषां पूजाकरणे यथोचितविनयाद्यर्चाविधौ रतिरासक्तिर्यस्य स तथा, गुरुपूजाकरणरतो वा, एवंविधो हि जनप्रियत्वेन ससहायतया समारब्धसाधनसमर्थो भवति । तथा शुश्रूषादिगुणसङ्गत एव च, शुश्रूषा श्रोतुमिच्छा, तदादयोऽष्टौ गुणाः, तद्यथा
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । उहापोहोऽर्थविज्ञानं तत्त्वज्ञानं तु धीगुणाः ||
तैः समन्वित एव च चैवशब्दौ समुच्चयावधारणार्थौ नियोजितावेव, एवंविधो हि शास्त्रसंस्कृतबुद्धित्वेनोपायज्ञतयेप्सितार्थसाधक भव । अस्यैव विशेषमाह - ज्ञाता विद्वान्, कस्येत्याहअधिकृतविधानस्य जिनभवनकारणविधेः, एवंविधेन हि क्रियमाणं तद्विवक्षितार्थसाधकं भवति, तथा धनिकमत्यर्थमाज्ञाप्रधानश्चागमपरतन्त्रश्च । एतेन हि तत्कारितं लोकोत्तरक्रियत्वेन निर्वाणाङ्गं भवति, चशब्दः समुच्चयार्थः । xxx