________________
रणम - सम्यक्त्वप्रकरणम
अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो ।
संसारपयणुकरणो दव्वथए कूवदिटुंतो।। [आव.निर्यु. भा. १९४] सोऽपि न सामान्य इत्यत आह-शुभस्वजनोऽसंक्लिष्टबान्धवः, अशुभस्वजनो हि स्वजनानां लोकधर्मविरुद्धचारित्वेन न शुभभाववृद्धिमवाप्नोति, न च प्रवचनं प्रभावयितुमलम्, एतद्द्वयार्थमेव हि स्फुटं जिनभवनारम्भो विवेकिनाम् । सोऽपि वित्तसंयुतो द्रव्यपतिः, अनीदृशस्य हि तदारब्धमपि न सिद्ध्यति, तदसिद्धौ च खेदभाजनं भवति, पराभ्यर्थनाद्वारेण तत्साधयन्नपि जनहास्यो भवति, 'अहो जिनभवनकरणव्याजेनायं कुटुम्बं पुष्णाति' इति सम्भावनाहेतुत्वात्, सोऽपि कुलजः प्रशस्यकुलजातोऽनिन्द्यकुलजातो वा, अन्यथाविधेन हि विहितं तन्नात्यन्तं लोकादेयं स्यात् । सोऽप्यक्षुद्रोऽकृपणः, कृपणो ह्यौचित्येन 'द्रव्यव्ययकरणाशक्तत्वान्न तत्साधनाय शासनप्रभावनाय चालम्, अथवाऽक्षुद्रोऽक्रूरः, क्रूरेण हि परोपतापित्वाज्जनद्वेष्येण कृतं तदायतनं तन्मत्सरेण जनद्वेष्यं स्यात् । सोऽपि धृतिबलिको धृतिर्मनःसमाधानं तदेव बलं सामर्थ्यं तदस्यास्तीति धृतिबलिकः, धृतिबलविहीनो हि द्रव्यव्यये पश्चात्तापान्न पुण्यभाजनं भवति । सोऽपि मतिमान् बुद्धियुक्तो मतिविहीनो ह्यनुपायप्रवृत्तेर्न दृष्टादृष्टफलभाग्भवति तथेति समुच्चये, सोऽपि धर्मरागी श्रुतचारित्रधर्मानुरक्तः, धर्माननुरागी हि उक्तगुणकलापोपेतोऽपि न जिनभवनविधाने प्रवर्त्तते, प्रवृत्तावपि नाभिप्रेतफलसिद्धिभागिति नासावधिकारी । चकारो गुरुपूजाकरणरत्यादिगुणसंग्राहकस्तथाहि -
गुरुपूयाकरणरई सुस्सूसाइगुणसंगओ चेव । नायाहिगयविहाणस्स धणियमाणापहाणो य।। [पञ्चा०७-५] इति गाथार्थः ।।२१।।
___* द्रव्यसप्ततिकायाम्-५, ६* अथ 'एषां वृद्धौ वक्ष्यमाणं सत् फलमुदेति' इति वृद्धिद्वारनिरूपणार्थं चैत्यकारणाऽधिकारिगुणोपलक्षणेन पञ्चाशकगाथाभ्यामादौ सामान्यतस्तदधिकारिणं निरूपयति -
अहिगारी य गिहत्थो सुहसयणो वित्तमं जुओ कुलजो । अखुद्दो धिइबलिओ मइमं तह धम्मरागी य ।।
१. नाविशिष्ट A