________________
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम्
चक्रे० : एतदेव सविशेषमाहुः - देव० : एतदेव सविशेषमाह -
तित्थगराणा मूलं नियमा धम्मस्स तीए वाघाए ।
किं धम्मो किमहम्मो मूढा नेयं वियारंति ।।१९।। चक्रे० : स्पष्टा ।।१९।।
देव० : तीर्थकरः शास्ता तस्याज्ञा वर्णितस्वरूपा मूलं मूलकारणं नियमानिश्चयतो धर्मस्य यतिश्रावकभेदभिन्नस्य, तस्या आज्ञाया व्याघाते व्यतिक्रमे किं धर्मः किमधर्म इति काकुप्रयोगादधर्म एव भवतीत्याकूतम् । मूढाः प्रबलमोहोपहतविवेकदृष्टयो नेदं विचारयन्ति विवेचयन्तीति गाथार्थः ।।१९।।
* उपदेशपदे-६८० * तित्थगराणा मूलं णियमा धम्मस्स तीए वाघाए ।
किं धम्मो किमधम्मो णेवं मूढा वियारंति ।। तीर्थकराज्ञा भगवदर्हदुपदेशो मूलं कारणं नियमादवश्यंभावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो ह्यसौ । न चान्यस्यासर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्तौ मतिमतां हेतुभावं प्रतिपत्तुं क्षमते, एकान्तेनैव तस्य तत्रानधिकारित्वात्, जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखन इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनुष्ठानं धर्मः, अथवा किमधर्मो वर्त्तते ? अन्यत्राप्युक्तम्
आणाए ञ्चिय चरणं तब्भंगे जाण किं न भग्गंति । आणं च अइक्कंतो कस्साएसा कुणइ सेसं ? ।। इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं चाधर्म इति । न नैवैवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ।।६८० ।।
चक्रे० : बुद्धिमद्भिर्यद् ज्ञेयं तदाहुः - देव० : पर्यवसितमेवार्थमाह -
आराहणाए तीए पुत्रं पावं विराहणाए उ ।
एयं धम्मरहस्सं विनेयं बुद्धिमंतेहिं ।।२०।। __ चक्रे० : एषाऽपि स्पष्टैव।।२०।।
१. वियारिंति T,C वियारेति A, २. आराहणाइ A.T.C