________________
१-देवतत्त्वम् गा-१८
चक्रे० : अथ तत्केन कारयितव्यमित्याहुः
देव० : उक्तो जिनभवनकारणविधिः, तथैतत्केन कारयितव्यमित्याह अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ यि धम्मो आणाए पडिबद्धो ।। १८ ।।
चक्रे० : इह खलुरेवकारार्थस्ततश्चाधिकारिणैव वक्ष्यमाणस्वरूपेणेदं जिनवेश्म कारयितव्यम्, विपर्ययेऽनधिकारिणि कारयितरि दोषः । कस्माद् ? आज्ञाभङ्गादेव, आज्ञाजिनागमस्तद्भङ्गोऽन्यथाकरणं तस्माद् । अथ कथमाज्ञाभङ्गस्य दोषहेतुत्वमित्याहुर्धर्म आज्ञायाः प्रतिबद्धः स्वाधीनः ।। १८ ।।
देव० : अधिकारिणैव वक्ष्यमाणस्वरूपेणेदं जिनवेश्म, खलुरेवकारार्थो योजित एव, कारयितव्यम्, विपर्ययेऽनधिकारिणि कारयितरि, दूष्यते - अशुभकर्मोपादानेन विकृतिं नीयतेऽनेनात्मेति दोषो दूषणम्, कस्मादित्याह - आज्ञाभङ्गादेव, आङिति स्वस्वभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा भगवदभिहितागमस्तस्या भङ्ग इव भङ्गोऽन्यथाकरणात्तस्मात् । अथ कथमाज्ञाभङ्गस्य दोषहेतुत्वमित्याह - धर्म आज्ञया, प्रतिबद्धो व्याप्तस्तदविनाभावित्वात्, ततश्च यद्यदविनाभूतं न तत्तद्विना भवति, यथाग्निना विना धूमस्तथा, आज्ञाऽविनाभूतश्च धर्म इति गाथार्थः । । १८ ।।
* पञ्चाशके- ७/२ *
जिनभवनकारणविधानं वक्ष्य इत्युक्तम्, जिनभवनं च येन कारयितव्यं तमादौ तावन्निरूपयन्नाह अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ यि धम्मो आणाए पडिबद्धो ।
२७
अधिकारिणा तत्कारणयोग्यतावतैव इदं जिनभवनम् खलुरवधारणे तस्य च प्रयोगः प्रागुपदर्शित एव, कारयितव्यं विधापयितव्यम् । अथ किमिति अधिकारिणैवेत्युच्यते ? इत्याह-विपर्यये विपरीतत्वेऽनधिकारिकारिण इत्यर्थः । दोषो दूषणमशुभकर्मबन्धलक्षणम् । ननु संसारसरित्तरणतरकाण्डकल्पद्रव्यस्तवविधावपि कथं दोष इत्याह- आज्ञाभङ्गादेवाऽऽप्तवचनोल्लङ्घनादेव, आज्ञा चैवं द्रव्यस्तवं प्रति व्यवस्थिता
-
अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वथए कूवदिट्ठतो ।। अथाज्ञाभङ्गेऽपि कथं दोष इत्याह धर्मो द्रव्यस्तवादिरूपः आज्ञायामाप्तवचने प्रतिबद्धो नियतो वर्तते यतोऽतस्तद्भङ्गे दोष एव धर्माभावलक्षण इति गाथार्थः । । २ ।।