________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्यिगिहिसंकिलिट्ठो संसत्तो किलिट्ठो उ ।। पासत्याईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ।। एषोऽसंक्लिष्टः, यथाछन्दोऽपि च यथाछन्दो यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च -
२४६
उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥
उत्तमणुवदिट्ठे सच्छंदविगप्पियं अणणुवाइ । परतत्ति पवत्तिंति णेओ इणमो अहाछंदो ।। सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंदं ।। पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ।।१।।
* प्रवचनसारोद्धारे - १०३ *
अथ 'इयरे पंचेव' त्ति द्वारम्, तत्राऽऽह -
-
पासत्थो ओसन्नो होई कुसीलो तहेव संसत्तो । अहछंदोवि अ एए अवंदणिज्जा जिणमयंमि ||
‘पासत्थो' इत्यादि पार्श्वस्थोऽवसन्नो भवति कुशीलस्तथैव संसक्तो यथाछन्दोऽपि चैतेऽवन्दनीया जिनमते, तत्र पार्श्वे तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदः सर्वतो देशतश्च तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकमग्रपिण्डं वा भुङ्क्ते तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति । । १०३ ।। चक्रे० : अथ तद्वन्दने को दोष इत्याहुः
देव० : अथैतद्वन्दने को दोष इत्याह
-
वंदंतस्स उ पासत्थमाइणो नेव निज्जर न कित्ती ।
जायइ कायकिलेसो बंधो कम्मस्स आणाई । । १९० ।।
चक्रे० : वन्दमानस्य पार्श्वस्थादीन्नैव निर्जरा, न कीर्तिः किन्तु जायते कायक्लेशः शरीरावनामादिकः, तथा कर्मबन्धस्तदाचारानुमोदनात् उक्तं च
-
१. नेय A