SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१४५ ___ २०१ २०१ ___* प्रवचनसारोद्धारे-५४८ * अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह - आयाराई अट्ठ उ तह चेव य दसविहो य ठियकप्पो । बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं।। 'आयाराईत्यादि, आचाराः श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसम्पदः, तथा आचेलक्कुद्देसिय सिज्जायर रायपिंड किइकम्मे। वय जेट्ठ पडिक्कमणे मासं पज्जोसवणकप्पो ।। इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपम्, तथा षडावश्यकानि सामयिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति । इह चैवमन्या अपि षट्त्रिंशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते ।।५४८ ।। देव० : अथाऽऽचारादिसम्पदः स्वयमाह - आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिन्ना ।।१४५।। देव० : एतदर्थश्च प्राग्व्याख्यात एव ।।१४५।। * प्रवचनसारोद्धारे-५४१ * तत्राष्टौ सम्पद इमाः - आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ।।५४१।। 'आयारे 'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचारश्रुतशरीरम्, तथा वचनम्, प्राकृतत्वादेकारः, वाचनामतिः, प्रयोगमतिः, एतेषु विषये सम्पत्, तथाहि- १-आचारम्पत् २-श्रुतसम्पत् ३शरीरसम्पत् ४-वचनसम्पत् ५-वाचनासम्पत् ६-मतिसम्पत् ७-प्रयोगमतिसम्पत् ८-अष्टमी च संग्रहपरिज्ञासम्पत् तत्राऽऽचरणमाचारोऽनुष्ठानं तद्विषया स एव वा सम्पद् विभूतिस्तस्य वा सम्पत् सम्पत्तिः प्राप्तिराचारसम्पत्, एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ।।५४१ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy