________________
१४६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन्तो मुग्धजनप्रवादतिरस्कारमाहुः -
देव० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन् मुग्धजनप्रवादतिरस्कारमाह -
सव्वत्थ अत्थि धम्मो जा मुणियं जिण ! न सासणं तुम्ह ।
कणगाउराण कणगं व ससियपयमलभमाणाणं।।११४ ।। चक्रे० : सुगमा, केवलं कनकातुराणां धत्तूरकातुराणाम्, 'ससियपय'त्ति ससितं सशर्कर पयः क्षीरम् ।।११४ ।। ॥ इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां
सम्यक्त्ववृत्तौ समर्थितं तृतीयं मार्गतत्त्वम् ।। । देव० : सर्वत्र सर्वेषु कपिलशैवशाक्यादिविविधमतेषु, अस्ति विद्यते धर्म इति विवेकविकलानामभ्युपगमो वर्तते, यावत् किम् ? यावन्न मुणितं नाधिगतं हे जिन ! विगलिताशेषरागादिदोष ! जातौ चात्रैकवचनम्, शासनं द्वादशाङ्गं 'तुम्ह'त्ति युष्माकं व्यक्त्यपेक्षया बहुवचनमनेन जातिव्यक्त्योः कथञ्चिदभेदमाह, किमिव कुत्र केषामित्याह-कनकातुराणां हत्पूरकफलचूर्णभावितात्मनां कनकमिव सुवर्णमिव सर्वश्रेष्टकाकाष्ठपाषाणादिष्वस्तीत्यभ्युपगम इतीहापि दृश्यम्, किंविशिष्टानां तेषाम् ? सह सितया शर्करया वर्तत इति ससितम्, तच्च तत्पयश्च दुग्धं तदलभमानानामप्राप्नुवतामपिबतामिति तात्पर्यमिति गाथार्थः ।।११४ ।।
।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे
तृतीयं मार्गतत्त्वं समाप्तम् ।।श्रीरस्तु ।।