________________
३-मार्गतत्त्वम् गा-७३
१०७
एतद्धवनगरूणामर्हतां वचनं प्रकटरूपमपि स्पष्टस्वभावमपि 'निहोडियं' 'हेड होड अनादरे' निहोडितं नादृतम्, यद्वा देश्योऽयमधःकृतार्थे । ते हि सर्वप्रकारैर्जिनमन्दिरव्यापारमनतिष्ठन्तोऽनेषणीयं भक्तपानादि च गृह्णन्तो गृहस्थांश्च ‘मद्गच्छीयाः' इति ममीकुर्वाणा अन्यदपि ज्योतिषनिमित्तमन्त्रतन्त्रादि प्रयुञ्जानाः षट्जीवनिकायमुपमृद्नन्तः कथं भगवद्वचो नाधःकुर्वन्ति ? इति गाथार्थः ।।७२।।
देव० : श्राम्यन्ति तपस्यन्तीति श्रमणाः साधवस्तेषां कः सारः किं प्रधानं रहस्यमिति यावदित्याह – षड्जीवनिकायसंयमः षट् च पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणास्ते जीवनिकायाश्च तेषां संयमो रक्षा, एतदिति प्रत्यक्षपरामर्शे वचनं समयरूपं भुवनगुरूणामर्हतां निहोडितमधःकृतम्, प्रकटरूपमपि स्पष्टस्वभावमप्ययमर्थः । ते हि सर्वप्रकारैर्जिनमन्दिरव्यापारमनुतिष्ठन्तोऽनेषणीयं भक्तपानादि च गृह्णन्तो गृहस्थांश्च ‘मद्गच्छीया एत' इति ममीकुर्वाणा अन्यदपि ज्योतिषनिमित्तमन्त्रतन्त्रादि प्रयुञ्जानाः षड्जीवनिकायमुपमृद्नन्तः कथं भगवद्वचो नाधःकुर्वन्ति ? इति गाथार्थः ।।७२।।
चक्रे० : अथ सुगृहीतनामधेयैरार्यरक्षितैरनुज्ञातत्वाञ्चैत्यनिवासस्य कथमागमपराङ्मुखप्ररूपितोऽयमुच्यते ? इत्येतद्दातव्योत्तरमाहुः -
देव० : अथ सुगृहीतनामधेयैरार्यरक्षितैरनुज्ञातत्वाच्चैत्यनिवासस्य कथमागमपराङ्मुखप्ररूपितोऽयमभिधीयते ? इत्येतदनूद्य समाधिमाह -
मन्नंति चेइयं अज्जरक्खिएहिमणुनायमिह केई ।
ताण मयं मयबझं जम्हा नो आगमे भणियं ।।७३।। चक्रे० : स्पष्टा, नवरं 'चेइयंति चैत्यनिवासायेति गम्यम् । 'मयबझंति मतबाह्यंआगमबहिर्भूतम् ।।७३।।
देव० : मन्यन्त अभ्युपगच्छन्ति केचिदाचार्याभासा इति सम्बन्धः, किं तत् ? चैत्यमार्यरक्षितैरनुज्ञातमिति वाक्यं कर्म, क्व ? इह यतिजनविषये निवासायेति प्रक्रमस्तेषामेव वादिनां मतमभ्युगमो मताज्जिनशासनाद् बाह्यं बहिर्भूतम्, यस्माद्धेतोरागमे सिद्धान्ते न भणितं चैत्यनिवासानुज्ञानमिति प्रकृतमिति गाथार्थः ।।७३ ।। १. अज्जरक्खिएहिं A.T.C