SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ चरणपरिणामो ये चान्तकाले प्रव्रज्यार्थिनो वेषं प्रपूजयन्ति तेषामपि प्रव्रज्याप्रतिपत्तिसाध्यं फलं संभवति । यतः #आलोअणापरिणओ, सम्मं संपट्टिओ गुरुसगासे । अंतरावि कालं करिज्ज आराहओ तह वि ।। तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयत्ति नमंतो सो पावइ निज्जरं विउलं ।। श्री आवश्यके । कल्याणमन्दिरस्तोत्रेऽपि - आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या, ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानम्, किं नाम नो विषविकारमपाकरोति ? ।। अत्र कथा 8 - - 44 'वाससहस्सं पि जई, काऊणं संजमं सुविउलं पि । अंते किलिट्टभावो, न विसुज्झइ कंडरीओ व्व ।। ३३९ [ पुष्पमाला - ३६५ ] [आवश्यकनिर्युक्ति-११३०] [कल्याणमन्दिर-१७] [उपदेशमाला-२५१-२५२] अप्पे विकणं, केइ जहागहियसीलसामन्ना । साहंति निययकज्जं, पुंडरीयमहारिसि व्व जहा ।। " पुण्डरीककण्डरीको पौण्डरिकिण्यां पुरि राजानो 'भ्रातरावभूताम् । अन्यदा कश्चित्सूरि । `तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच - भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपि प्रव्रजामि । प्रभुराहकृत्यमिदं भवादृशाम्, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, २. ‘महापद्मराजपद्मावतीदेव्योरङ्गजातौ ।' ३. 'तद्धर्मेन' हस्त० । ४. 'प्रविव्रजिषुः ' हस्त० नास्ति । 6. आलोचनापरिणतः सम्यक् सम्प्रस्थितो गुरुसकाशे । यद्यन्तरापि कालं कुर्यात् आराधकस्तथाऽपि ।। 7. तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन् । तीर्थकरः इति नमन् स प्राप्नोति निर्जरां विपुलाम् ।। 8. वर्षसहस्रमपि यतिः कृत्वा संयमं सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीकरिव ।। 9. अल्पेनापि कालेन केचित् यथागृहीतशीलश्रामण्याः । साधयन्ति निजककार्यं पुण्डरीकमहर्षिरिव यथा ।।
SR No.023419
Book TitleMannaha Jinan Aanam Swadhyay
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages468
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy