________________
૪૪૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
सिलोपेऽनेन नागमे संयोगान्तलोपे नस्य "युजञ्चक्रुञ्चः " (२.१.७१) इति ङकारे च युङ् । अश्वयुग् इति - अश्वं युक्तीति किप " ङस्युक्तं कृता" (३.१.४९) इति समासः अत्र 'असमासे' इति वचनान्न भवति । 'युज्रः' इति ऋकारोऽनुबन्धः किमर्थः ? "युजोऽसमासे" इत्युच्यमाने सिद्ध्यत्येवेत्याह- ऋदिदित्यादि । युजमापन्ना मुनय इति-युजेः क्रुत्संपदादित्वात् क्विप् ।।७१।।
ल. न्यास - युद्ध इत्यादि । असमास इति स्याद्याक्षिप्तस्य नाम्नो युज्र इति विशेषणात् तत्र च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणम्, इदमेव ज्ञापयति-अत्र प्रकरणे तदन्तविधिरस्तीति । ।७१।।
अनडुहः सौ |१।४ । ७२ ।।
बृ०न्यास-अनडुह इत्यादि । ( अनस्पूर्वात् "वहीं प्रापणे" इत्यतः ) " अनसो वहे० " ( उणा० १००६) इति क्विपि सकारस्य डकारे “यजादि-वचेः किति" (४.१.७९) इति वृति सौ तलुकि "वाः शेषे" (१.४.८२) इति वादेशेऽनेन नागमे “पदस्य०” (२.१.८९) इत्यन्त्यलोपे अनड्वान् । प्रिया अनड्वाहो यस्येति, एकत्वे “पुमनडुनौ-पयो०” (७.३.१८३) इति कच्प्रसङ्गाद् बहुत्वेन विग्रहे पूर्ववत् स्यादौ प्रियानड्वान् । आमन्त्र्यसौ तु "उतोऽनडुञ्चतुरो वः " (१.४.८१) इति वत्वे - हे अनड्वन् ! इत्यादि। सत्यपि लिङ्ग(नाम)ग्रहणे लिङ्गविशिष्टस्य० इति न्याये 'अनडुही' इत्यादौ धुडन्तत्वाभावान्न भवतीति ।। ७२ ।।
ल.न्यास-अनडुह इत्यादि । सत्यपि नामग्रहणे इति न्याये 'अनडुही' इत्यत्र धुडन्तत्वाभावान्न भवति । ननु 'अनड्वान्' इत्यत्र "स्रंस्-ध्वंस्-क्वस्स०" (२.१.६८) इत्यादिना दकारः कथं न भवति ? सत्यम् - प्राप्नोति परं विधानसामर्थ्यान्न भवति ।। ७२ ।।
पुंसो: पुमन्स् | १|४ | ७३ ॥
बृ०न्यास – पुंसोरित्यादि । "पातेर्हुम्सुः " ( उणा० १००२) इति डुम्सौ अन्त्यस्वरादिलोपे सावनेन पुमन्सादेशे “न्स्महतोः” (१.४.८६) इति दीर्घत्वे "पदस्य०" (२.१.८९) इत्यन्तलोपे पुमान् । "नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुपुमान् । एकत्वे कच्प्रसङ्गात् प्रियाः पुमांसो यस्येति बहुत्वेन विग्रहे 'प्रियपुमान्' इत्यादि । प्रकृतेरुदित्त्वात् प्रियाः पुमांस या अधातूदृदितः" (२.४.२) इति ङीः, सैव प्रकृष्टा " द्वयोर्विभज्ये च तरप्" (७.३.६) इति तरप्यापि च "ऋदुदित्तर-तम-रूप० ' (३.२.६३) इति ह्रस्वत्वं पुंवद्भावविकल्पो भवतीत्याह - पुंसोरित्यादि ।। ७३ ।।
"
ल. न्यास - पुंसोरित्यादि । पुंसोरुदित्त्वादिति ननु “पातेर्हुम्सुः " ( उणा० १००२) इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुंसीतरेत्यादि रूपत्र सेत्स्यति, किमत्रोदनुबन्धेन ? उच्यते-यदा अव्युत्पत्त्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम्, व्युत्पत्तौ तु फलमौणादिकस्य, यथा -भवतुशब्दो "भातेर्डवतुः " ( उणा० ८८६) इति व्युत्पादितोऽपि सर्वादो उदनुबन्धः पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति - बहुत्वे वाक्यम्, एकत्वे तु “पुमनडुन्नौ०” (७.३.१७३) इति कच् स्यात् । ङी- र्हस्व-पुंवद्विकल्पेति ङीर्नित्यं हस्व-पुंवत्त्वयोश्च विकल्पः ।।७३।।
ओत औ: । १।४।७४।।
बृ०न्यास-ओत इत्यादि। सुगौः, अतिगौः कुत्सितो गौः - " किं क्षेपे" (३.१.११०) इति समासे किंगौः, न गौःअगौः, "पूजास्वतेः प्राक् टात्" (७.३.७२) इति "न किमः क्षेपे" (७.३.७०) इति "नञ्-तत्पुरुषात्" (७.३.७१) इति च समासान्तप्रतिषेधः । चित्रा गौर्यस्येति "गोश्चान्ते हस्वो० " (२.४.९६) इति हस्वत्वे चित्रगुः, अत्र परत्वात् पूर्वं ह्रस्वत्वे कृते पश्चाद् घुट्योकाराभावाद् ‘ओतः' इति वचनादौकारो न भवति, वर्णविधित्वात् स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो !' इत्यत्रौकारस्य विद्यमानत्वात् कस्मान्न भवति ? उच्यते - सेरभावालाक्षणिकत्वाद् वा न भवति, नह्यस्य "जस्येदोत्" (१.४.२२) इतिवत् साक्षादुच्चारणमस्ति, किन्तु गुण इति