________________
परिशिष्ट-२
४४१ यावतिथोऽनुबन्धस्तावतो योगानिति वक्तव्यम्, यावतिथो वर्णोऽनुबध्यते तावतो योगानधिकारो वर्तते। अथेदानीं यत्राल्पीयांसो वर्णा भूयांसश्च योगास्तत्र किं कर्तव्यम् ? भूयसि प्राग्वचनं कर्तव्यम्-'प्रागमुतः' इति; एतदपि न वक्तव्यम्-सन्देहमात्रमेतद् भवति, सर्वसन्देहेषु चेदमुपतिष्ठते-*व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति प्रागमुत इति व्याख्यास्यामः । यद्येवं नार्थोऽनेन, केनेदानीमधिकारो भविष्यति? लौकिकोऽयमधिकार इति। ननु चोक्तम्-अन्यनिर्देशो निवर्तक इति, सन्देहमात्रमेतद् भवति, संदेहे च व्याख्यास्यामः-दृष्टानुवृत्तिकत्वाद् घुड् अनुवर्तते, न सिरिति। किञ्चाचार्याचाराच्च, शैलीयमाचार्यस्य-'यत्र पृथगधिकारसूत्रं करोति तत्र विशेषेऽधिकारः सम्बध्यते, पादान्तं चानुवर्तते; यथा-अयमेव घुटीत्यधिकार इति; यत्र तूर्ध्वमप्यनुवर्तते तत्रावधिं निर्दिशति-यथा "प्राग् जितादण्" (६.१.१३) इत्यण, यस्तु सर्वत्रानुवर्तते तत्र न पृथग् निर्दिशति-“एदोतः पदान्तेऽस्य लुक्" (१.२.२७) इति पदान्ताधिकार इति; तत्र निवृत्तौ यतते-“स्वरेभ्यः" (१.३.३०) इति, अत्र हि बहुवचनस्य व्याप्त्यर्थत्वादुत्तरत्र नानुवृत्तिः, “सौ नवेतौ” (१.२.३८) इति सत्यपि "श-ष से श-ष-सं वा" (१.३.६) इति वाग्रहणम्, “वाद्यात्" (६.१.११) इति सत्यपि “नित्यं अजिनोऽण्" (७.३.५८) इति नित्यग्रहणम् ।।६८।।
ल.न्यास-घुटीति। अधिकारोऽयमिति-'नपुंसकस्य घुटि परतो नोऽन्तो भवति' इति विधिरेव कस्मान भवति? उच्यते-नपुंसकस्य शिमन्तरेणान्यस्य घुट्त्वाभावात्, तत्र च "स्वराच्छौ” (१.४.६५) इत्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमिति।।६८।।
अचः ।१।४।६९॥
बृन्यास-अच इति। स्वरादिति धुटां प्रागिति चानुवर्तनात् सनकारस्याञ्चतेः प्राप्तेरभावाल्लुप्तनकारस्य निर्देश इत्याहअञ्चतेरिति। अच इति नोऽन्त इत्यस्य विशेषणाद्, घुटः परत्वमात्रमेव विज्ञायत इत्याह-तत्सम्बन्धिन्यन्यसम्बन्धिनि वेति। प्राञ्चतीति क्विपि “अञ्चोऽनर्चायाम्" (४.२.४६) इति नलोपे “दीर्घ-डयाब्०" (१.४.४५) इति सिलोपेऽनेन नागमे “पदस्य" (२.१.८९) इति चकारलोपे “युजञ्च-क्रुञ्चो नो ङः” (२.१.७१) इति ङकारे प्राङ् ।।६९।।
ऋदुदितः ।१।४।७०।। बृन्यास-ऋदुदित इति। शोभना दन्ता यस्येति “वयसि दन्तस्य दतृ" (७.३.१५१) इति दत्रादेशेऽनेन नागमे संयोगान्तलोपे सुदन्। करोतेः क्वसौ द्विवचनादौ कृते सौ चक्रिवान्। अथ उदितो धातोः “उदितः स्वरान्नोऽन्तः" (४.४.९८) इत्युपदेशावस्थायामेव नागमविधानात् कृते च नागमे "धुटां प्राग्" (१.४.६६) इत्यनुवर्तनादनेन नागमाभावः, ऋदिल्लक्षणस्तु कस्मान्न भवतीत्याह-पृथग्योग इत्यादि। अयमभिप्राय:-तत्र धात्वधिकारे भ्वादेरुदितः “उदितः स्वरानोऽन्तः" (४.४.९८) इत्यनेनैव सिद्धत्वादत्रोदितः पृथगारम्भादुदितोऽभ्वादेरेव तत्साहचर्यादितोऽपि अभ्वादेरेवेति नियमात् 'सम्राड्' इत्यादौ न भवति ।।७०।।
___ ल.न्यास-ऋदुदीत्यादि। पृथग्योगो भ्वादिव्युदासार्थ इति-अयमभिप्राय:-"उदितः स्वरानोऽन्तः" (४.४.९८) इत्यत्र धात्वधिकाराद् भ्वादेरुदित: “उदितः स्वरानोऽन्तः" (४.४.९८) इत्यनेनैव सिद्धत्वादत्र उदितः पृथगारम्भादुदितोऽभ्वादेरेव तत्साहचर्याददितोऽपि अभ्वादेरेवेति नियमात् 'सम्राट्' इत्यादौ न भवति ।।७० ।।
युज्रोऽसमासे ।१।४७१।। बृन्यास-युज्र इत्यादि । 'युज्रः' इत्यनेन स्याद्याक्षिप्तस्य नाम्नो विशेषणात् तत्र च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति 'असमासे' इति प्रतिषेधोऽर्थवानिति, अयमेव च समासप्रतिषेधो ज्ञापयति-'अत्र प्रकरणे तदन्तविधिरस्ति' इति। युनक्तेः क्विपि