________________
परिशिष्ट-२
૪૨૫ (१.४.२८) इति दासादेशे यद्यपि खी-तिसम्बन्धी यशब्दोऽस्ति तथाप्यदितीत्यनुवृत्तेरु|भावः, ङसीति (ङसि-ङस् इति) रूपाभावाद् वेति ।।३६।।
ल.न्यास-खि-तीत्यादि। “षणयी दाने" सनोति दत्ते परस्परं भोजनादिकमिति सखा, “सनेः डखिः" (उणा० ६२५) पाति अपायादिति “पातेवा" (उणा० ६५९) इति डतिः। सात्युरिति-सायते स्म दीयते स्म पुण्यैरिति सातम्, “साति: सौत्र: सुखे" सातति वा। मुख्य इति-अत्र विचि कृते “य्वोः प्वय०" (४.४.१२१) इति यस्य लुग न, यतः "स्वरस्य परे०" (७.४.११०) इति णिलोप: स्थानी, न च
३.५२) इत्यस्यावकाशः, *ना निर्दिष्टस्यानित्यत्वात्*, भवतु वाऽवकाशस्तदेदमुत्तरम्-“य्वोः प्वय" (४.४.१२१) इति सूत्रे लुक् इति संज्ञा, *संज्ञापूर्वको विधिरनित्यः* यद्वा “क्वो" (४.४.११९) इति सूत्रकरणात्-क्विप्-विचोर्व्यञ्जनकार्यमनित्यम्, न च वाच्यं कथं विच्यपि व्यञ्जनकार्यानित्यता, यतोऽप्रयोगिनामपलक्षणः विप ।।३६।।
ऋतो डुर् ।१।४।३७॥ बृ०न्यास-ऋतो डुरिति। डुरित डकारो “डित्यन्त्यस्वरादे:” (२.१.११४) इति विशेषणार्थः। ऋकारलकारयोरेकत्व प्रतिज्ञानाद् लकारादपि डुरादेशो भवति, तस्य च ऋफिडादिपाठात् लत्वम्, तेन कुल् लकारः, यदाह तत्त्वदीपिकायामुपाध्यायः-आप्लु' इत्येतस्मात् षष्ठ्यामापुल् इत्येव भवति। ग्र इति-गृणातेरनुकरणात् पञ्चम्यां रेफे ग्र इति रूपम् ।।३७ ।।
ल.न्यास-ऋतो डुरिति। *ऋकारोपदिष्टं लुकारस्यापि* तेन “ऋफिडा०" (४.४.११९) इति लत्वम्, कुल् लकारः, यदाह उपाध्यायः-'आपल' इत्येतस्मात् षष्ठ्यामापुल् इत्येव भवति ।।३७ ।।
तृ-स्वसृ-नप्त-नेष्ट्र-त्वष्ट-क्षत्तृ-होतृ-पोतृ-प्रशास्त्रो घुट्यार् ।१।४।३८।।
बृन्यास-तृ-स्वस्रित्यादि । त्रादीनां समाहारद्वन्द्वात् षष्ठ्यां सौत्रो निर्देशः, अथवा सूत्रे साक्षादृकारो निर्दिश्यते, ततश्च तृस्वसृ-नप्तृ-नेष्ट त्वष्ट्र-क्षत्तृ-होतृ-पोतृ-प्रशास्तृणां य ऋकारस्तस्य समानदीर्घत्वे षष्ठ्यां रत्वे रूपम्। ऋकारोपादानस्य चेदं फलम्तृ इति प्रत्ययस्य ग्रहणम्, अन्यथा यतेः ऋप्रत्यये तृरूपस्य सम्भवात् तस्यापि ग्रहणप्रसङ्गः, अत आह-तृन्-तृच्प्रत्ययान्तस्येतिअत एव 'तृन्-तृच्' इत्यनुबन्धनिर्देशः प्रत्ययाप्रत्ययसमुदायव्युदासार्थः, न तु तृन्-तृचोर्ग्रहणार्थः, तृ इति प्रत्ययमात्रस्यात्र ग्रहणादिति, अत एव वक्ष्यति-तृशब्दस्यार्थवत इत्यादि। “डुकंग करणे" करोतीति “णकतृचौ" (५.१.४८) इति तृचि गुणे अमौजस्सु अनेनारादेशे कर्तारमित्यादि-ओकारप्रत्यासत्त्यासत्त्यर्थं (औकारप्रत्यासत्त्यर्थं) च प्रथमं द्वितीयोदाहरणे ततः प्रथमोदाहरणे। तृच्-प्रत्ययाभिव्यक्त्यर्थं कटस्योत, "कर्मणि कृतः” (२.२.८३) इति षष्ठी। “वद व्यक्तायां वाचि" वदतीत्येवंशील: "तृन् शील-धर्म-साधुषु" (५.२.२७) इति तृनि “स्ताद्यशितो०" (४.४.३२) इतीटि पूर्ववद् वदितारमित्यादि । जनापवादानिति तृन्नभिव्यक्त्यर्थम्, "तनुदन्ताव्यय०" (२.२.९०) इति षष्ठीप्रतिषेधात् द्वितीया। “असूच क्षेपणे" सुपूर्वात् (अतः) “सोरसे:" (उणा० ८५३) इति ऋप्रत्यये स्वस, अतोऽमौजस्सु अनेनारादेशे स्वसारम्, स्वसारो, स्वसार इति, एवमुत्तरत्रापि। “णमं प्रबत्वे" अत: “नमेः प् च" (उणा० ८६२) इति तृप्रत्यये पादेशे नप्तारम्। “णींग प्रापणे" अत: “नियः षादिः" (उणा० ८६४) इति षकारादितृप्रत्यये नेष्टारम्। "त्विषीं दीप्तौ” अतः "क्षद खदने” इति सौत्राञ्च “त्वष्ट्र-क्षत्तृ-दुहित्रादयः" (उणा० ८६५) इति तृप्रत्यये इकारस्याकारे एकत्र दकारस्य “अघोषे प्रथमोऽशिट:" (१.३.५०) इति प्रथमत्वे त्वष्टारम्, क्षत्तारम्। जुहोते: “हु-पूद्गोत्री०" (उणा० ८६३) इति तृप्रत्यये होतारम्। पवतेः पुनातेर्वा पूर्वेण तृप्रत्यये गुणे च पोतारम्। प्रपूर्वात् “शासूक् अनुशिष्टौ" अत: "शासि-शंसी०" (उणा० ८५७) इति तृप्रत्यये प्रशास्तारम्। अन्ये तु त्वष्ट-क्षत्तृ-होतृ-पोतॄन् ताच्छील्यादिषु निपातयन्ति, अत्र इडभावस्त्वस्मादेव निपातनात्।