________________
૪૩૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન कोषकारैः बहु-गण-शब्दो सङ्ख्यायामपि पठितौ। सङ्ख्याप्रदेशेषु तु प्रसिद्धसङ्घयाया एव ग्रहणम्। अत एव इति-नियतावधिभेदवाचकत्वाभावेन सङ्ख्याप्रसिद्धेरभावादेवेत्यर्थः। भूर्यादिनिवृत्तिरिति-भूरिः स्यात् प्रचुरे स्वर्णे", आदिशब्दाद् विपुलादिसङ्ग्रहः। निवृत्तिरिति-सङ्ख्याप्रदेशेषु सङ्ख्याग्रहणेनाऽग्रहणमित्यर्थः ।
ननु पूर्वसूत्रवद् अस्यापि संज्ञासूत्रत्वमतिदेशसूत्रत्वं वा शक्यते वर्णयितुम्, तत्र संज्ञापक्षे प्रदेशेषु *कृत्रिमाकृत्रिमयोः कृत्रिमे०* इति न्यायबलाद् बह्वादीनामेव ग्रहणं स्याद्, नैकादिकाया लोकप्रसिद्धसङ्ख्याया ग्रहणमिति शङ्काऽपि पूर्वसूत्रोपपादितप्रणाल्या *क्वचिदुभयगतिः* इत्याश्रितेन न्यायेन समाधास्यत इत्यपि मन्यामहे, परन्तु व्याख्यानाद्यपेक्षतया विषयविशेषानिर्णायकक्वचिदितिपदघटिततया चागतिकगतिस्थल एवास्य न्यायस्यावलम्बनं युज्यते, यत्र किमपि भवेदितरत् समाधानं तत्रावलम्बनमेतस्य युक्तं न प्रतीम इति न्यायस्यास्यानाश्रयणेऽपि संज्ञापक्षे प्रदेशेषूभयग्रहणं सम्भाव्यते वा न वेति चेत्-सम्भाव्यते, तथाहि-यतोऽन्यल्लघीयो न भवति सा संज्ञेति प्रसिद्धावपि यन्महासंज्ञाकरणं 'सङ्ख्या' इति तेन ज्ञाप्यतेऽन्वर्थसंज्ञेयमिति। अन्वर्था नाम अवयवार्थानुसारिणी, अवयवार्थश्च सङ्ख्यायतेऽनयेति सङ्ख्या, सङ्ख्यानकरणमित्यर्थः । एकादिकयाऽपि सङ्ख्यायत इति भवत्येकादीनामपि ग्रहणम्, न च महासंज्ञाकरणस्यान्वर्थत्वज्ञापनेन चरितार्थतया कृत्रिमयोः बहु-गणयोः सङ्ख्यानकरणीभूतबहुत्व-गणत्वार्थवाचिनोरेव प्रदेशेषु ग्रहणं भवतु, अन्वर्थत्वावलम्बनाञ्च मा भूद् ग्रहणं वैपुल्य-सङ्घवचनयोः, * कृत्रिमाकृत्रिम०* न्यायबाधे तु न किमपि प्रमाणमित्येकादीनां ग्रहणं न भविष्यतीति वाच्यम्, यतः संज्ञापक्षे 'सङ्ख्या' इति पृथग्योगः सङ्ख्यासंज्ञार्थः, संज्ञायाः संश्याकाङ्क्षतया महासंज्ञाकरणलब्धान्वर्थवाचकस्य सङ्ख्यानकरणाभिधायिनो नियतानियतसङ्ख्यावाचिन: सर्वस्याक्षेपेण एकादीनां बह्वादीनां च संज्ञा सिद्धा, पश्चात् 'बहुगणम्' इति योगः, अत्र सङ्घयापदानुवर्तनेन बहुशब्दो गणशब्दश्च सङ्ख्यासंज्ञिनौ भवत इत्यर्थः सम्पत्स्यते। सेयं सङ्ख्यासंज्ञा बह्वादीनामपि 'सङ्घच्या' इति विभक्तयोगेनैव सिद्धेति द्वितीययोगेन तेषां संज्ञाविधानं कल्पयति-'अर्थान्तरवाचित्वे सति बहुत्ववाचिनश्चेत् सङ्ख्याकार्य तर्हि बहु-गणयोरेव' इति, तेन वैपुल्याद्यर्थान्तरवाचिनां भूर्यादीनां न संज्ञा, यद्वा-अनियतसङ्ख्यावाचिनां चेद् बहुगणयोरेवेति नियमः, अनन्तशब्दवदनन्तवाचिशतशब्दस्य सङ्ख्याकार्याभाव इष्ट एवेति।
परे तु-परस्परसाहचर्यात् सङ्ख्याव्यापकार्थवाचिनोरेव बहुगणयोर्ग्रहणम्, न तु सङ्घ-वैपुल्यवचनयोरिति व्यर्थाऽन्वर्थसंज्ञा, महासंज्ञाकरणेन तु प्रदेशेषु लोकप्रसिद्धकेवलयोगार्थस्यापि ग्रहणमिति नियतविषयपरिच्छेदहेतुभूतस्य सङ्ख्यानकरणमेकत्वादिकमभिदधत एकादेः सङ्ख्याकार्य सिद्ध्यति। नियतविषयपरिच्छेदहेतुत्वं चात्र यद्धर्मप्रकारकनिश्चयोत्तरं लोके गणनायां प्रसिद्धा ये स्वातिरिक्ता यावद्धर्मास्तद्धर्मप्रकारकसंशयसामान्यं नोदेति तद्धर्मावच्छिन्नवाचकत्वम्, यथा-'त्रयो घटाः' इत्युक्तौ त्रित्वाभावाऽप्रकारकत्व-त्रित्वप्रकारकत्वरूपनिश्चयस्य प्रतिबन्धकतया एकत्व-द्वित्व-चतुष्ट्वादियावद्धर्मप्रकारकसंशयाः नोदेतुं प्रभवन्तीति त्रित्ववाचकत्वात् त्रिशब्दस्य नियतविषयपरिच्छेदहेतुत्वम्, एवं चतुरादिशब्दानामपि, बह्वादीनां तु बहवो घटाः' इत्युक्तौ बहुत्वप्रकारकनिश्चयसत्त्वेऽपि पञ्च वा दश वा विंशतिर्वा घटा इत्यादिसंशयस्य जागरूकतया नियतविषयपरिच्छेदहेतुत्वं नास्तीति योगविभागपक्षः, तत्पक्षे नियमार्थत्वाद्युक्तिश्च न घटते, सङ्ख्याकार्यार्थं बहु-गणयोः स्वयं कृतार्थत्वेन नियमत्वायोगाद्" इत्याचक्षते।
ननु पक्षद्वयस्याप्यत्र वचनमुन्मत्तप्रलपितायतेतराम्, तथाहि-योगविभागेनान्वर्थत्वपक्षे नियमत्वपक्ष इति प्रथमः कल्पः; नियतविषयपरिच्छेदहेतुत्वाभावेन नियमत्वपक्षो न युक्तः, परस्परसाहचर्य तु सङ्घ-वैपुल्यवाचिनोर्ग्रहणं विहन्तीति द्वितीयः कल्प इदानीमुक्तः, तत् कथं युज्येत? स्वयं तु सूत्रे भेदग्रहणं कृतमिति सङ्ख्यावाचिनौ बहु-गणौ गृह्णीयाद् वैपुल्य-सङ्घवाचिनौ तिरयेदिति फलस्यान्यथासिद्धत्वेन नियमत्वोक्तेः परस्परसाहचर्योक्तेर्वाऽनुचितत्वादिति चेत्, न-उक्तकल्पयोरन्यतरेण कतरेणचिद् भेदग्रहणमन्तराऽपि सति निर्वाह भेदग्रहणमपि न कार्यमिति तात्पर्येण पक्षद्वयस्यास्योक्तत्वात्।
ननु भेदग्रहणाभावे "बहु-गण-डत्यतु सङ्ख्या" इत्याकारकमेकमेव सूत्रं तर्वस्तु, योगविभागो वृथेति चेत्, सत्यम्अस्त्वेकमेवेति वयमपीदानीमभ्युपेमः, सम्पूर्णसूत्रमेवान्वर्थत्वपक्षे नियामकं भविष्यति का क्षतिः?। अथैवमपि अन्वर्थत्वपक्षे