________________
परिशिष्ट-२
४१ धात्वर्थप्रधानत्वादध्याहरति-भवत इति। “भिदंपी विदारणे" अत: “भावाऽकों:" (५.३.१२) इति घञि “लघोरुपान्त्यस्य" (४.३.४) इत्युपान्त्यगुणे भेदशब्दः, स च "भेदो विदारणे द्वैध उपजाप-विशेषयोः।" इति वचनादनेकार्थक इति प्रकृतोपयोगिनोऽर्थस्य निर्णयायाह-नानात्वमिति-न आनयति (न प्रापयति स्वगततयैकत्वपर्याप्तिम्) इति नाना, तस्य भावो नानात्वम् अत्र आयूर्वान्नयतेः 'डित्” (उणा० ६०५) इति डिति आप्रत्यये अन्त्यस्वरादिलोपे “भावे त्व-तलौ" (७.१.५५) इति त्वप्रत्ययः ।
"नानाशब्दो विनार्थेऽपि तथाऽनेकोभयार्थयोः।
स्थाने तु कारणार्थे स्याद् युक्त-सादृश्ययोरपि" ।।४।। (इति मेदिनी, अव्य० श्लो० ४५) इति वचनाद् विविधार्थत्वेऽप्यनेकार्थपरस्य नानाशब्दस्य ग्रहणमिति बोधयितुमाह-एकत्वप्रतियोगीति-"इंण्क् गतौ" अत एति-अभेदं गच्छतीति “भीण-शलि-बलि०" (उणा० २१) इति के गुणे च एकः, तस्य भाव एकत्वम्, एकत्वसङ्घयेत्यर्थः, "प्रथिष् प्रख्याने" अतः “प्रथेच्क् च वा" (उणा० ६४७) इति तिप्रत्यये अन्तस्य लोपे च प्रतिः, स चात्र वामार्थद्योतको ग्राह्यः, "युनूंपी योगे" अतः प्रतियुनक्ति विरोधं दधातीति “युज-भुज०" (५.२.५०) इति धिनणि उपान्त्यगुणे “क्तेऽनिटश्चजो०" (४.१.१११) इति जस्य गत्वे प्रतियोगिन्, एकत्वस्य प्रतियोगि विरोधभाक् एकत्वप्रतियोगि, यत्र पर्याप्तिविशेषेणैकत्वं न तत्र तेन सम्बन्धेन नानात्वमित्येकसम्बन्धेनैकत्रावृत्तित्वरूपं विरुद्धत्वमवसेयम्, एकत्वभिन्ना सङ्ख्यात्वव्याप्यरूपविशिष्टा सङ्घयेति फलितार्थः, तादृशं रूपं च बहुत्वत्वादिकमवसेयम्, भेदो (अन्योऽन्याभावो) यत्र स्वप्रतियोगिवृत्तित्व-स्वाश्रयवृत्तित्वाभ्यां सम्बन्धाभ्यां तिष्ठेत् तादृशो बहुत्वादिसङ्ख्यारूपो धर्म इति तात्पर्यम्। 'बहवो घटाः' इत्यादौ घटवृत्तिबहुत्वस्य बहुत्वाश्रयापरघटभेदाश्रयेऽपरस्मिन् घटे यथा सत्त्वं तथा भेदप्रतियोगिबहुत्वाश्रयघटेऽपीति बहुत्वमीदृशो धर्मो भवितुमर्हति। यद्यपीदृशो धर्मो द्वित्वत्रित्वादिरपि भवति, तथापि प्रकृते बहु-गणशब्दयोरुपादानाद् द्वि-त्र्यादिशब्दानां निरासः । त्र्यादिषु घटेषु बहुशब्दप्रयोगेऽपि तेषां बहुत्वेनैव बोधो न तु त्रित्वादिनेत्यन्यदेतत्। बहुभिः क्रीत इति बहुकः। बहुभिः प्रकारैरिति बहुधा। बहवो वारा अस्येति बहुकृत्वः। गणैः क्रीत इति गणकः। गणैः प्रकारैरिति गणधा। गणा वारा अस्येति गणकृत्वः। अर्थविशेषोपादानफलं पृच्छति-भेद इति किमिति। प्रत्युत्तरयतिवैपुल्ये सङ्घ च सङ्ख्याकार्य मा भूदिति, वैपुल्ये-विशालत्वार्थे वर्तमानस्य बहुशब्दस्य सङ्घ - सङ्घातार्थे वर्तमानस्य गणशब्दस्येति क्रमेण योजनीयम्। विपोलतीति विपूर्वात् “पुल महत्त्वे" इत्यस्माद् “नाम्युपान्त्य०" (५.१.५४) इति के विपुलः, तस्य भावो वैपुल्यं तस्मिंस्तथा। संहन्यत इति सङ्घः, सम्पूर्वाद्धन्ते: “निघोद्घ-सङ्घो०" (५.३.३६) इत्यलि साधुः, तत्र तथा। वैपुल्ये यथाबहु रुदितम्। सो यथा-भिक्षूणां गणः। अथ बहुगणशब्दयोर्भदवाचित्वात् सङ्ख्यात्वमस्त्येव, यतो भेदः परिगणनं सङ्खयेति, ततश्चैकादीनामिव बहुगणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनातिदेशवचनेन?, अतिदेशो हि अन्यत्रार्थप्रसिद्धस्यान्यत्रप्रसिद्धिप्रापणार्थ इत्याह-बहु-गणावित्यादि-नियम्यते स्मेति निपूर्वात् “यमूं उपरमे" इत्यस्मात् "क्त-क्तवतू" (५.१.१७४) इति क्ते “यमिरमि०" (४.२.५५) इति मलोपे नियतः, अवधीयत इत्यवपूर्वाद् दधातेः, 'उपसर्गादः किः' (५.३.८७) इति को “इडेत्पुसि चातो लुक्" (४.३.९४) इत्यातो लोपे च अवधिः, अभिदधातीति अभिपूर्वाद् दधातेः “णक-तृचौ” (५.१.४८) इति णके "आत ऐ: कृञौ" (४.३.५३) इति आकारस्य ऐकारे तस्य आयादेशे च अभिधायकः, नियतो निश्चितोऽवधिरवसानं यस्य तादृशस्य भेदस्य अनेकत्वरूपस्य अभिधायको वाचकाविति नियतावधिभेदाभिधायको। अयं भावः-निश्चितावसाना या सङ्ख्या तद्वाचकस्यैव सङ्ख्याशब्दत्वमिति लोकप्रसिद्धिः, यथा-'पञ्च घटाः' इत्युक्ते सति पञ्चैव न षडादय इति पञ्चत्वावसानबहुत्वसङ्ख्याया निर्णयादस्ति पञ्चशब्दस्य सङ्ख्याशब्दत्वम्, 'बहवो घटाः' इत्यत्र तु केवलं बहुत्वसङ्ख्या प्रतीयते न तु तदवसानमपि, बहुशब्दस्य त्रित्वादिव्यापकसङ्ख्यावाचकत्वाद्, अतो न बहुशब्दस्य सङ्ख्यावाचकत्वप्रसिद्धिः। एवं गणशब्दस्यापि। सङ्ख्याप्रसिद्धेरभावादिति-सङ्ख्यावाचकत्वाभावादिति स्पष्टमनुक्त्वा प्रसिद्ध्यभावकथनेनेदं ज्ञाप्यते-सङ्ख्यावाचकत्वं त्वस्त्येव, किन्तु सङ्ख्यात्वेन प्रसिद्धिर्नास्ति, अत एव