________________
परिशिष्ट-२
४२८ अपरे तन क्षमन्ते-संज्ञाशास्त्राणामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति नियमत्वायोगात्, वृद्ध्यादिपदे आरादिनिरूपितशक्तेः सत्त्वेऽपि लोके तत्पदेन तेषां बोधाभावेन व्यवहारादिना शक्तिग्रहासम्भवेन अज्ञातशक्त्या बोधाभावेन च संज्ञासूत्राणां शक्तिज्ञानजननाय विधायकत्वे सम्भवति नियामकत्वायोग इति नानेन प्रकारेणोक्तन्यायसिद्धिरिति तात्पर्यम्। न चैवं 'सर्वे सर्वार्थवाचकाः' इत्यस्य का गतिरिति वाच्यम्; 'सर्वे सर्वार्थवाचकाः' इत्यभ्युपगमो हि योगिदृष्ट्या, जानन्ति खलु योगिनः सर्वानपि पदार्थान् तत्तद्धमपुरस्कारेण, तत्तद्धर्मज्ञानविकलतया तत्तद्रूपतो ज्ञातुं न वयमीशामहे सर्वपदार्थानित्यस्मदादिदृष्ट्या ‘सर्वे सर्वार्थवाचकाः' इति अन्धजनहस्तन्यस्तस्फीतालोकप्रदीप इवैवेति मन्तव्यम्। अथ घटपदादावर्थवाचकत्वव्याप्यपदत्ववत्ताज्ञानरूपानुमानेन सामान्यलक्षणासहकारेणार्थत्वावच्छिन्नसकलार्थनिरूपितशक्तिज्ञानमस्मदादीनामपि सम्भवतीत्यस्मदादिदृष्ट्याऽपि सर्वेषां सर्वार्थवाचकत्वं न विहन्यतेतमामिति न वाच्यम्, शक्तिज्ञानोपस्थिति-शाब्दबोधानां समानप्रकारेणैव कार्यकारणभावेनार्थत्वेन शक्तिग्रहे शक्नोत्यर्थत्वावच्छिन्न एवोपस्थातुम्, तदवच्छिन्न एव शाब्दबुद्धौ भासितुं च, घटत्वादयो विशेषधर्मास्तु शाब्दबुद्धौ न भासेरन्निति कथमस्मदादिदृष्ट्या सर्वे सर्वार्थवाचकाः' इति भवितुं युक्तम्, 'सर्वार्थवाचकाः' इत्यस्य अर्थत्वव्याप्यतत्तद्धर्मावच्छिन्नबोधकाः, इत्यर्थात्। तथा च लोकप्रसिबैकादिसङ्ख्याग्रहणार्थं संज्ञिकोटावपि सङ्ख्याग्रहणं संज्ञासूत्रत्वपक्षे आवश्यकं भवतीति।
अत्रैके समादधति-व्याख्यातृपरम्परावगतवक्तृतात्पर्यानुपपत्या प्रकरणादिं नाद्रियामहे, तथा सत्युभयमवर्गस्यते-पारिभाषिको डत्यन्तादिौकिकैकादिका सङ्ख्या चेति। क्वचित् तदनादरफलित एवायं न्यायः * क्वचिदुभयगतिः* इति, अनेन लौकिकालौकिकोभयार्थतात्पर्य शास्त्रे क्वचिदस्तीति बोध्यते। उभयविधबोधस्तु आवृत्तेराश्रयणाद् भविष्यति। एवं च न संज्ञिकोटौ गौरवास्पदीभूतं सङ्ख्याग्रहणं कर्तव्यतां श्रयति।
अपरे तु-"सङ्ख्या-डतेश्चाशत्तिष्टेः" (६.४.१३०) इत्यत्र शत्प्रतिषेधो ज्ञापयति-*क्वचिदुभयगतिः* इति, इतरथा लोकप्रसिद्धैकादिसङ्ख्यातिरिक्ता पारिभाषिकी केयं शदन्ता त्यन्ता वा सङ्ख्याऽस्ति यस्याः प्राप्तिपूर्वकः प्रतिषेधो युज्यते? इत्याहुः । उभयस्य-कृत्रिमाकृत्रिमोभयस्य गतिः-ज्ञानं ग्रहणम्, क्वचिद् भवतीति न्यायार्थः । क्वचित्पदोपादानानास्य सर्वत्र प्रवृत्तिः। एतत्प्रवृत्यभावस्थले “कृत्रिमाकृत्रिमयोः कृत्रिमे०" इत्यस्य प्रवृत्त्या कृत्रिमस्य ग्रहणम् ; अस्यापि तरलत्वात् क्वचिदकृत्रिमस्य ग्रहणम्।
____ क्वोभयग्रहणं? क्व कृत्रिमग्रहणं? क्व चाकृत्रिमग्रहणम्? इत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम्। “नाडी-तन्त्रीभ्यां स्वाङ्गे" (७.३.८०) इत्यनेन ‘बहुनाडिः कायः, बहुतन्त्रीीवा' इत्यत्र कृत्रिमस्वाङ्गवृत्त्योर्नाडीतन्त्रीशब्दयोर्यथा कच् निषिध्यते तथा 'बहुनाडिः स्तम्बः, बहुतन्त्रीवर्वीणा' इत्यत्राकृत्रिमवृत्त्योरपि स निषिध्यत इत्युभयग्रहणम्, अत्र नाडीतन्त्र्योरप्राणिस्थत्वान्न कृत्रिमस्वाङ्गत्वम्, यतः
"अविकारोऽद्रवं मूर्तं प्राणिस्थं स्वाङ्गमुच्यते।
च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु" ॥३।। इति स्वाङ्गलक्षणात्। ननु स्तम्बस्यैकेन्द्रियप्राणित्वाद् नाड्याः कथमप्राणिस्थत्वमिति चेत्, उच्यते-"प्राण्यौषधि-वृक्षेभ्योऽवयवे च" (६.२.३१) इति सूत्रे प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्धेऽपि पृथक् तद्ग्रहणेनेदं ज्ञापितम्-इह व्याकरणे प्राणिग्रहणेन त्रसा एव गृह्यन्ते, न तु स्थावरा इति। “असह-नञ्-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः" (२.४.३८) इत्यत्र "अविकार:०" इतिलक्षणलक्षितमेव कृत्रिमं स्वाङ्गं गृह्यते, न तु स्वमङ्गमवयव इति यौगिकमकृत्रिमम्, तेन 'दीर्घमुखा शाला' इत्यत्र शालापेक्षया लोकप्रसिद्धस्वाङ्गत्वे सत्यपि अप्राणित्वेन पारिभाषिकस्वाङ्गत्वाभावान्न ङीः। “शिरोऽधसः पदे समासैक्ये" (२.३.४) इत्यत्राकृत्रिमं पदशब्दरुपमेव गृहीतम्, न तु पारिभाषिकं विभक्त्यन्तं पदम्, तेन 'शिरस्पदम्, अधस्पदम्' इति सिद्ध्यति। न चाऽत्र पारिभाषिकपदग्रहणेऽपि 'पदम्' इत्यस्य विभक्त्यन्तत्वेन पदत्वात्, सत्वं भविष्यत्येवेति वाच्यम्, पदशब्दातिरिक्तानां सविभक्तिकघट-पटादिशब्दानामपि परत्वे