________________
૪૨૮
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું इत्यादिसंज्ञावतां व्यक्तिविशेषकृतसङ्कतमुखस्पृशा (कृत्रिमाणा) मेव ग्रहणं भवति, न गवां पालकस्य कटे वा जातस्य पुंसः * कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणम् इति न्यायात्, तथा सङ्ख्याप्रदेशेष्वपि कृत्रिमत्वाद् इतिप्रत्ययान्तादय एव गृह्येरन्, न तु लोकप्रसिद्धेकादिका सङ्ख्येति संज्ञासूत्रत्वेऽकामेनापि संज्ञिकोटौ सङ्ख्याग्रहणं कर्तव्यमेवेति वाच्यम्, लोके हि कृत्रिमग्रहणे न कृत्रिमत्वं कारणम्, किन्तु अर्थाद्वा प्रकरणाद्वा कृत्रिमं गृह्यते । अर्थ :- सामर्थ्यम्, यथा- 'गोपालकमानय माणवकमध्यापयिष्यति' इत्यत्र गोपरिचाररतस्य यष्टिहस्तस्य नाध्यापनसामर्थ्यमिति तत्सामर्थ्यशाली गोपालकेतिकृतसङ्केतको व्यक्तिविशेषः कतमश्चिद् विपश्चिदानीयते, न यष्टिहस्तः । प्रकरणम् - प्रस्तावस्तत्तत्क्रियाविशेषरूपः, यथा - भोजनप्रकरणे 'सैन्धवमानय' इत्युक्तौ लवणम्, मनप्रकरणे तदुक्तौ तुरगं प्रतीतिरवगाहते । नानार्थकशब्दस्थले सर्वत्र तत्तद्धर्मावच्छिन्नविषयतया यावतां स्वशक्यानामुपस्थितौ किंविषयक : शाब्दबोधः स्यादिति संशयेनाकुलीभवतः संयोग-विप्रयोग-साहचर्य-विरोधा-ऽर्थ-प्रकरण-लिङ्गाऽन्यशब्दसन्निधान- देश - कालाद्यन्यतमत् स्वज्ञानसाहाय्येन तत्र तत्रोपयुज्यमानार्थमेव शाब्दबोधे भासयते । यद्यपि रूढेयोगापहारकत्वमित्यप्यत्र सम्भवति, तथापि प्रकरणादिसहकृतस्य योगस्यापि बलीयस्त्वमित्यभिप्रेत्येदमवगन्तव्यम् । यत्र तु पदार्थनियामकार्थ-प्रकरणादिविरहस्तत्र संशेते वा अकृत्रिम निश्चिनुते वा, यथा- ऊहकरणेऽपटुम् (ग्राम्यम्) अचिरागतत्वेनाऽप्रकरणज्ञं कञ्चिद् ब्रवीतु भवान् 'गोपालकमानय' इति, सोऽत्र संशयवान् भवेत्-संज्ञेयं कस्यचिन्निर्दिष्टा स्याद् ? यष्टिहस्तो गोपरिचरणरतो वाऽस्य विवक्षितः ? इति । इत्थं वक्तृतात्पर्यविषयसंशयाभावेऽपि तत्तात्पर्यविशेषविषयकनिश्चयवान् वा भवेत् - यो मम प्रसिद्धो यष्टिहस्तः सोऽनेन चोदितः, एवंसंज्ञकस्तु नास्ति मे प्रसिद्ध इति, सम्भावयामः- स गच्छेदपि यष्टिहस्तमानेतुम् । रूढेर्योगापहारकत्वेन संशयपक्ष उक्तो न युक्त इति तु न शङ्कयम्, तत्तत्पुरुषं प्रति प्रसिद्धरूढ्यर्थस्यैव योगापहारकारित्वात्। संज्ञाप्रकरणस्य नियमार्थत्वाद् योगार्थमादाय निश्चयपक्षोऽप्युक्तो न युक्तो भ्रमत्वादित्यपि न शङ्कनीयम्, लोके हि गोपालकादिशब्दः संज्ञिनि नियम्यमानः संज्ञान्तरं मा बूबुधत्, क्रियानिमित्तं प्राप्तमर्थं तु न कथं बोधयेद् नियमस्य सजातीयविषयत्वात्, तथा च कृत्रिमत्वं न भवति कारणं कृत्रिमग्रहण इति संज्ञिकोटौ सङ्ख्याग्रहणं नोपादेयतामर्हति ऊत्तरेणापि संज्ञाकरणमेकादिका सङ्ख्याप्रदेशेषु ग्रहीष्यत इति । अथ मा स्म भवत् कृत्रिमत्वं कृत्रिमग्रहणे कारणम्, अर्थो वा प्रकरणं वा लोकेऽर्थविशेषनिवृत्तिमुखेनार्थविशेषप्रतिपत्तिकारि तु सादरमभ्युपेयते भवताऽपि; अङ्ग हि शास्त्रेऽपि सति प्रकरणेऽर्थविशेषः प्रतिपद्यताम्, डत्यन्तादीनां सङ्ख्यासंज्ञा कृतेति बुद्धिसन्निधिरूपं प्रकरणं प्रकृतेऽपि जागर्ति । अयं भावः - यस्मिन् शब्देऽनेकशक्तिस्तत्र कीदृशशक्तिज्ञानाधीनबोधनेच्छया वक्त्रोच्चारितमिति श्रोतुर्निश्चयाभावः, शाब्दबोधे च समानविषयकतात्पर्यनिश्चयस्य कारणत्वात् तन्निश्चयाभावे शाब्दबोधानुपपत्तौ प्राप्तायां प्रकरणादिना तात्पर्यनिर्णयः, तन्निर्णये च शाब्दबोध उपपद्यते। एवं च सङ्ख्यादिपदे एकत्वादिनिरूपिता लौकिकी शक्तिः, इतिप्रत्ययान्तादिनिरूपिता च शास्त्रीया शक्तिरस्तीति कीदृशार्थबोधनेच्छया " सङ्ख्या-डतेश्चाशत्०" (६.४.१३०) इत्यादावाचार्येणोच्चारितमिति जिज्ञासायां स्वयमेव शास्त्रकारेण इतिप्रत्ययान्तादिनिरूपितशक्तिं बोधयित्वा कथमन्यार्थबोधनेच्छयोच्चारितं स्यादिति ज्ञानरूपप्रकरणेन इतिप्रत्ययान्तादावेव तात्पर्यनिर्णयेन प्रदेशेषु सङ्ख्यात्वेन डत्यन्तादिविषयकबोधस्यैव सम्भवेन लौकिकैकादिसङ्ख्याया अप्रतिपत्तिः । एतत्फलितोऽयं न्याय: कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः इति ।
I
केचित् तु-मच्छास्त्रेऽनेन शब्देनैत एव बोद्धव्या इति रीत्या संज्ञासूत्राणां नियमार्थत्वं कृत्रिमाकृत्रिमन्यायबीजम्, तथाहिसर्वस्माच्छब्दात् केषाञ्चिच्छक्तिभ्रमेण केषाञ्चिल्लक्षणया सर्वार्थविषयकबोधोत्पत्त्या सर्वार्थबोधकत्वं सर्वेषां शब्दानामिति सिद्धम् । वैयाकरण-मते च बोधकतैव शक्तिरिति सर्वार्थनिरूपितशक्तिमत्त्वं सर्वेषां शब्दानां सिद्धमेव । न चैवं शक्तिभ्रमाद् बोधो लक्षणया बोध इत्यादि-व्यवहारानुपपत्तिः, तव मते सर्वत्र शक्तेः सम्भवादिति वाच्यम्, परमताभिप्रायेण तद्व्यवहारस्य सत्त्वात् । अत एव ‘सर्वे सर्वार्थवाचकाः' इत्यभियुक्तानां व्यवहारः । एवं च वृद्धिसंज्ञादिपदेषु आरादि- इतिप्रत्ययान्तादिनिरूपितशक्तेरपि सत्त्वेन तत्तत्पदेन तत्तदर्थप्रतीतेर्लो-किकशक्त्यैव सिद्धौ “वृद्धिरारैदौत्” (३.३.१) इत्यादिसंज्ञासूत्राणां वैयर्थ्येन मच्छास्त्रे वृद्ध्यादिपदेन आरादीनामेव बोध इति नियमात् *कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः इति लभ्यत इति वदन्ति ।