________________
ध्याश्रयमहाकाव्ये
[जयसिंहः]
पीतवन्तस्तथा यासु ह्योद्य च चो वार्थो ह्य इत्यतो ज्ञेयः। अद्य कल्पे वा निरभुक्ष्महि निश्चितं भुक्ताः ॥ अवोचन् । इत्यत्र "अद्यतनी" [५] इत्यद्यतनी ॥ अगमाम याः। पयांस्यपाम । व्यामिश्रे । अद्य ह्यश्च निरभुक्ष्महि । इत्यत्र "विशेषा." [५] इत्यादिनाद्यतनी ॥ भयवानिहावात्समिहावसं चैत्यवदन्मिथः प्रश्न उषावशेषे । अविषुप्तसुप्ता बटवो यदेषामरुणत्क्षपाटाधिपतिः प्रचारम् ॥ ४ ॥
४. यद्यस्माद्ये(दे)षां बटूनां प्रचार प्रसरं क्षपाटाधिपती राक्षसेश्वरोरुणटुंद्धवांस्तस्माद्धेतोरुषावशेषे रात्रेश्चतुर्थे यामेविषुमसुमा द्वन्द्वे अवस्कन्दभयेन केचिदविषुप्ता अतिनिद्रालुत्वाच केचित्सुमा बटवो मिथः प्रश्ने । क भवानुषित इति पृच्छायां सत्यवदन् । क्रिमित्याह । भयवान्क्षपाटेभ्यो भीतः सन्नहमिह स्थानेवात्समुषितस्तथाहमिहावसं चेति । अविषुप्ता इहावात्समित्यवदन्सुप्तास्त्विहावसमित्यवंदन्नित्यर्थः । एतेनैषां वैयाकरणरूपतोक्ता । एतद्रोधे च क्षपाटाधिपतेर्महापापिता सूचिता। बटूनां बहुत्वेपि भयवानिहावात्समित्यादावेकवचनमेकैकस्य वासापेक्षया ॥
इहावात्सम् । अत्र "रात्री०" [६] इत्यादिनाद्यतनी ॥ राज्यन्तयामे तु मुहूर्तमपि स्वापे हास्तन्येव । इहावसम् ॥ अवदन् । इत्यत्र "अनद्यतने बस्तनी" [७] ॥ इति शस्तनी ॥
१ ए °त्समहा॰. २ बी त्यदवन्मि... ३ ए °वचन्मि.
१ ए यास्तु ह्मोद्य. २ डी सु त्वौद्य. ३ ए यों ह्म इ. ४ ए व्यानिमि. ५ बी निरुभु. ६ ए द्रुहवां. ७ सी डी °वांसतस्मा. ८ ए न्दचये. ९ डी हमह. १०९ °वनि. ११ ए °द्रोध च. १२ ए सी डी नी ॥ अ°.