________________
घ्याश्रयमहाकाव्ये द्वादशः सर्गः ।
स्मृतिमेष शुश्राव यशोशृणोत्वं
निषसाद नीतौ व्यषदन्न जातु । शममध्युवासोपगुरु न्यवात्सी
दपथं बभज्वान्पपुराणशक्तिः ॥१॥ १. एष जयसिंहः पपुराणाः पूरिताः पालिता वा शक्तयः प्रभुत्वोत्साहमत्रशक्तयो येन स तथा सन्नुपगुर्वाचार्यसमीपे न्यवात्सीद्धर्मशुश्रूषयोपाविक्षत् । अत एव स्मृतिं धर्मशास्त्रं शुश्राव । अत एव च नीतौ निषसाद तस्थौ । तथा न जातु व्यषदन्महाव्यसनसंभवेपि न विषण्णोभूत् । तथा शममध्युवासाश्रितवान् । तथापथं कुमार्ग बभज्वानिर्लोठिवान् । अत एवं स्वं यशो लोकैरुद्गीयमानमशृणोत् ॥
शुश्राव । निषसाद । अध्युवास । इत्यत्र "श्रुसद." [1] इत्यादिना परोक्षा । वाँवचनाद्यथास्वकालमद्यतनी शस्तनी च । अशृणोत् । व्यपदत् । न्यवात्सीत् ॥
बभज्वान् । पपुराण । इत्यत्र "तत्र." [२] इत्यादिना कसुकानौ । सर्गेसिन्केकिरवं छन्दः । स्यौ स्यौ केकिरवम् ॥ १ ए °घसीद. २ एतौ विष. सी तौ वर्ष. डी तौ वयष. ३ ए
मध्यवा.
१ ए एच. २ ए पि निविषिण्णो'. ३ प ण भ. ४ ए डी चानत. ५५ °व स्वयं य. ६ ए सी नं । शु. ७ ए वाच. ८९ राण्य । ६०.