________________
६०२
म्याश्रयमहाकाव्ये
.[कुमारपालः
साधीयःसाधिष्ठनेदिष्ठनेदी
यांसः श्रोतुः सन्तु ते दुःखवेगाः ॥ ५२ ॥ ५२. उद्गतः क्लेशो येभ्यस्त उक्लेशा दुःखहेतव आत्मन उत्क्केशा आत्मोत्लेशास्तानहं त्वयि विषये द्राक् श्रयामि वचनस्यातिस्फुटसत्यत्वेन प्रशस्यं यथा स्यादेवमार्चक्षे । तथा ज्ययामि वचनस्यातिमहत्त्वादृद्धं यथा स्यादेवमाचक्षे च । प्रशस्यशब्दादृद्धशब्दाच क्रियाविशेषणादत्र णिन् । यतः। किंभूते त्वयि। श्रेष्ठे श्रेयसि च। महापुरुषत्वेनातिप्रशस्यतम इत्यर्थः । तथा ज्येष्ठे ज्यायसि च । अत्यन्तं गुणैर्वृद्धतम इत्यर्थः । ततश्च श्रोतुर्मदीयोक्लेशानाकर्णयतः सतस्ते तव महापुरुषत्वेन परदुःखदुःखितत्वाद्दुःखवेगाः कष्टसंभाराः सन्तु । कीदृशाः । द्वयोर्मध्येतिबाढाः साधीयांसो बहूनां मध्येतिबाढाः साधिष्ठास्तथा बहूनां मध्येत्यन्तिका नेदिष्ठा द्वयोरत्य॑न्तिका नेदीयांसः। विशेषणकर्मधारये ते तथा । अतिगाढतमा अतिनिकटतमाश्चेत्यर्थः ॥ शालिनी छन्दः ।
प्रेम नेदयति साधयितोक्तेः
प्रापयन्सवरिमेह गरीयान् । त्वां त्रपिष्टमहमत्रपिमाणं - ही करोम्यगरिमा त्रपयन्ती ॥ ५३ ॥ ५३. गरीयान्द्वयोर्मध्येत्यन्तं गुरुत्वयुक्त उक्तेर्वचसः साधयिता वाढमाख्याता । अत्रापि क्रियाविशेषणादाढाणिज् । अत्यन्तं वक्ता पुमा१ बी श्रोतः स २ बी तोक्ते प्रा. १ सी 'नवहं. २५ °चक्ष । त'. ३ बी क्षेत । त'. ४ बी त्वावृद. ५ बी माषक्षे. ६ सी याया वि'.. ७ सी 'णादिति णि, ८ सी तमेत्य'. ९ एपिष्टा व. १० सी सन्तका. ११ सीख्या । .