________________
५७२
व्याश्रयमहाकाव्ये
[कुमारपालः]
दन्बालस्तथा कुम्भस्येव पादौ यस्याः कुम्भपदी दासी । द्वन्द्वे तद्वजडं हेयोपादेयार्थेष्वज्ञम् ॥
व्याघ्रपदा । इत्यत्र “पात्पादस्य." [१४८ ] इत्यादिना पादस्य पाद् ॥ भहस्त्यादेरिति किम् । हस्तिपादौ । अजपाद ॥
कुम्भपदी । विष्णुपद्याम् । इत्येतौ “कुम्भपद्यादिः" [१४९ ] इति निपात्यो ।
सुपादौ । चतुष्पाद् । इत्यत्र “सुसंख्यात्" [ १५० ] इति पाद् ॥ सुदत् । द्विदत् । इत्यत्र “वयसि." [१५१ ] इत्यादिना दन्तस्य देतृ ॥ अत्ययोदतिररोकदन्क्रुधा श्यावदन्तयुगरोकदन्तकः । श्यावदंश्च यमकिंकरो यथा प्राणिभिन्मयि नृपेपि ही जनः १६
१६. मयि नृपेपि मयि राज्ञि सत्यपि । ही खेदे । जनः क्रुधा कृत्वा प्राणिभित् प्राणिनः पशून् भिनत्ति विनाशयति । कीडक्सन् । अय इव दन्ता अस्या अयोदती नाम राक्षसी । तामतिक्रान्तः । राक्षसीतुल्य इत्यर्थः । यथा यमकिंकरः क्रुधा प्राणिभित् । किंकिनामेत्याह । अरोकदस्तथा श्यावदन्तयुगरोकदन्तकस्तथा श्यावदंश्च । अरोका निर्दीप्तयो निश्छिद्रा वा श्यावाः कपिशा दन्ता अस्येति व्युत्पत्तिः ॥
अत्ययोद॑तिः । अत्र "स्त्रियां नाम्नि" [ १५२ ] इति दैतृ । श्यावदन् श्यावदन्त । अरोकदैन् अरोकदन्तकः । अत्रं "इयावारोकाद्वा" [ १५३ ] इति वा दैतृ ॥ रथोद्धता छन्दः ॥
१ सी श्च नृप. १सी थेव. २ ए °द्यादिति. ३ ए दतः । अ.. ४ सी °पि ही म. ५ सी वदंश्च. ६ सीदति । अं. ७ ए दतः । श्या. ८ सी दन्तक । अ. ९सी त्रशावा. १०९ दतः । र.