________________
ब्याश्रयमहाकाव्ये विंशः सर्गः।
पद्माक्ष्य आततषडङ्गुलकृष्यरिक्था
रन्तुं वनेष्वयुरथ श्रमजिह्मसक्थ्यः । निःशङ्कमपुरिह शासति गां द्विमूर्धा
कः कस्लिमूर्घ उत योपनयं विदध्यात् ॥ १॥ १. पद्माक्ष्य: त्रियः पुष्पोच्चयादिक्रीडया रन्तुं वनेष्वयुः । कीदृश्यः । आततं विस्तीर्ण यत्षडगुलं षडङ्गुलयो यस्य तदङ्गुलिसहशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठं तेन कृष्यमतिबहुत्वाकर्षणीयं रिक्थं धनं यासां ताः । अत्यन्तमीश्वर्य इत्यर्थः । अथ गमनानन्तरं श्रमजिह्मसक्थ्यः श्रान्ताः सत्यो वनेष्वेव निःशकं निर्भयमूषुः । युक्तं चैतत् । यस्मादिहे भैमौ गां पृथ्वी शासति को द्विमूर्घोताथ वा कस्त्रिम? योपनयं चौर्यलुण्टनाद्यना(द्यन्यायं) विदध्यात् । चण्डशासनत्वेनान्यायिनो मस्तकं ग्रहीतर्यस्मिन् यो द्विमूर्धा त्रिमूर्धा वा स्यात्स एवाहमस्यैक द्वे वा मस्तके दत्त्वैकेन शिरसा जीविष्यामीत्यभिप्रायेणान्यायं कुर्यादित्यर्थः ॥ वसन्ततिलका ।।
जायाप्रमाणजनताभिरगायि स त्रि.
मूर्धद्विमूर्घ इव देव उदात्तशक्तिः। १ ए रिस्का र. २ सी सक्थाः । नि'. ३ सी विध्यत्. १सी 'डय र. २सी क्षेणपाका. ३ सी ह मीमो गां. ४ सी पोथ'. ५ सी मूर्धा वा सा. ६ ए यो हि . ७ सी कं वा.