________________
५५८
व्याश्रयमहाकाव्ये
[ कुमारपाळः ]
हयद्विपं च हयद्विपं चेत्येकशेषे हयद्विपानि तैरतिप्रभूतैरित्यर्थः । अन्यथा तु सेनाङ्गत्वादेकत्वमेव स्यात् । यथाग्निहोत्रणः सश्वोवंसीयसं द्विस्तावान्द्विस्तावस्तमेवं त्रिस्तावं च वह्निमग्निविशेषं श्रः श्रेयसार्थमर्चन्ति ॥
निःश्रेयसार्थिभिरपि स्तुतदोस्तथोवीं
निस्त्रिंशपाणिरदशैः स जिगाय मासैः ।
न व्यङ्गुलं नयपथस्य विलङ्घते स्म
नात्यङ्गुलो भवति जातु यथा स्म कोपि ॥ १३७ ॥
१३७. यथा कोपि जातु नयपथस्य द्व्यङ्गुलं द्वे अङ्गुली न विचलते स्म । यथा कोपि नयपथैस्यात्यङ्गुलश्चाङ्गुलिमप्यतिक्रान्तश्च जातु न भवति स्म । सर्वोपि यथात्यन्तं ना (न्या ) य्यभूदित्यर्थः । तथात्यन्तं कण्टकोच्छेदाश्याय्यनुशासनादिप्रकारेण सँ भैमिर्निखिंशपाणिः खड्गव्यप्रकरः सन्नदशैः न दशादश । स्तै न्यूनैर्दशभिर्मासैरुव जिगाय वशीचक्रे । अत एव कीदृक् । निःश्रेयसार्थिभिरपि मोक्षेच्छुभिर्निःस्पृधैर्मुनिभिरपि स्तुतदोर्वर्णित बाहुवीर्यः ॥
1
संख्यातरात्रे । एकरांत्रं । पुण्यरात्र । वर्षारानात् । दीर्घरात्रे ॥ सर्व । सर्वरात्र ॥ अंश । अर्धरात्रे ॥ संख्या । द्विरात्रयोः ॥ अव्यय । अतिरात्र । इत्यत्र “संख्यात ०" [ ११९ ] इत्यादिना अत् ॥
१ एस्तथावीं नि..
१ सी वशीय'.
२ ए स्वावास्त'.
३ ए “थयस्या'. ४ ए 'ति । स ं. ५ सी त्यन्तक'. ६ ए 'दानाय्य'. ७ ए स भौमिमिस्त्रि'.
८ सी शादशा
a°.
९ ए 'मिनिस्पृ".
१० सी त्र । व
११ सी "वरा".