________________
ब्बाश्रयमहाकाव्ये
[ कुमारपालः ]
पुण्याहे । अत्र "अहः" [ ११६] इस्यट् ॥ संख्याता संख्याताह । इत्यत्र "संख्यातादह्नश्च वा" [ ११७ ] इत्यद । अहोहादेशो वा ॥
सर्वाह्लशुभलग्ने खैर्युतो यहोत्सवैगुहम् ।
तयात्यह्वेन्दुमुख्या स पूर्वाह्नार्कप्रभोविशत् ॥ १३२ ॥ १३२. पूर्वाह्नार्कप्रभः प्रवर्धमानप्रतापोदय(यः) स भैमिः सर्वाह्नशुभलग्ने सर्वाह्न सकलदिनमध्ये शुभं यल्लग्नं तत्र गृहमविशत् । कथम् । अत्यह्नोहरतिक्रान्तो रात्रौ भवो य इन्दुस्तद्वन्मुखं यस्यास्तया वध्वा सह । कीहक्सन । व्यह्नो द्वयोरहोर्भव उत्सवो येषां तैद्यहोत्सवैः स्वैः स्वजनैर्युत(त:) ॥
सर्वाह्न ॥ अंश । पूर्वाह । संख्या । यह्न ॥ अयय । अत्यह । इत्यत्र "सर्वाश०" [ ११८] इत्यादिना-अट् । अह्लादेशश्च ॥
गते संख्यातरात्रेर्वाग् वर्षारात्रान्महीपतिः । व्यसृजत्पुण्यरात्राघरात्रे श्वश्रू गुरुं च तम् ॥ १३३ ॥ १३३. भूपतिर्वर्षारात्रादर्वाक् पुण्यरात्रस्य नक्षत्रादिभिः पवित्राया रात्रेर्योर्धरात्रस्तस्मिन् सन्मुहूर्त इत्यर्थः । श्वश्रू तं गुरुं च व्यसृजत् । क सति । संख्याता या रात्री रात्रिजातिस्तत्र संख्यातरात्रे गते कियतीष्वपि रात्रिष्वतिकान्तास्वित्यर्थः ॥
१सी यापाहे'. २ ए दा.
१ सीताहः सं. २ ए मार्कः प्रव'. ३ ए यलमं. ४ ए कान्तौ रा'. ५पर्युता । स. ६सी व्ययं । अं. ७ए त्रेयो. ८ सीन् मुहू. ९ सीत्रे कि.