________________
५५४ व्याश्रयमहाकाव्ये
[कुमारपालः अथोद्रजःपूर्वसक्थोत्तरसक्थाय भूपतिः ।
रामो नु वानरशुनेदात्तस्मै पारितोषिकम् ॥ १२८ ॥ १२८. अथ भूपतिस्तस्मै पुंसे पारितोषिकं परितोषप्रयोजनं स्वर्णाद्यदात् । कीदृशाय । पूर्व सक्थि सभा(क्नः?) पूर्वभागो वा पू
सक्थमेवमुत्तरसक्थं द्वन्द्वे उद्रजसी भूरिमार्गात्तदैवागतत्वादुद्धूलिते पूर्वसक्थोत्तरसक्थे यस्य तस्मै । यथा रामः सीताप्रवृत्तिं गृहीत्वा बहुमार्गागतत्वेनोद्रजःपूर्वसक्थोत्तरसक्थाय वानरशुने वानरः श्वेव बलिष्ठत्वाद्वानरश्वा हनूमांस्तस्मै पारितोषिकमदात् ॥
हसन्कुक्कुटसक्थे स मृगसक्थे विडम्बयन् ।
पुमान्फलकसक्थाभ्यां निर्ययौ जवनोरसम् ॥ १२९ ॥ १२९. जवनानां वेगवतामुर(रः) प्रधानं जवनोरसं वेगवत्सु श्रेष्ठः स पुमान्निर्ययौ राजभवनान्निर्गतः । कीहक्सन् । फलके इव फलके अमांसले अतिकठिने च ये सनी (क्थिनी) ऊरू ताभ्यां कृत्वा कुक्कुटसक्थे हसन्मृगसक्थे च विडम्बयनंनुकुर्वन्नित्यर्थः ॥ . ग्रामतः । कौटतक्षैः । अत्र "ग्राम०" [ १०९] इत्यादिना-अट् ॥ गोष्टश्वैः । अतिश्वैः । अत्र "गोष्ट०" [ ११० ] इत्यादिना-अट् ॥ व्याघ्रश्वैः । अत्र "प्राणिनः०" [१११ ] इत्यादिना-अट् ॥ प्राणिन उपमानादिति पूर्वपदविज्ञानादिह न स्यात् । वानरशुने ॥
अनःश्वः । अत्र "अप्राणिनि" [ ११२] इत्यत् ॥ अप्राणिनीति किम् । बानरशुने ॥
१ सी क्थे च मृ. २ ए °यौ व.
१ सी सक्थः द्व'. २ सी रामसी'. ३ सी मुरु प्र. ५ ए बकु. ६ ए क्षैः । भम्र प्रा. ७९ उमा.
४ ए अमास.