________________
५४०
व्याश्रयमहाकाव्ये
[ कुमारपालः]
मालवेषु । इत्यत्र "वाहीकेषु०" [ ६३ ] इत्यादिना न्यट् स च द्रिः ॥ भब्राह्मणराजेन्येभ्य इति किम् । गौपालिराजन्यकाम्बव्य ॥ वृक । इत्यत्र "वृकाट्टेण्यण्" [ ६४ ] इति टेण्यण् स च द्विः ॥ यौधेय । शौभ्रेयः । अत्र “यौधेयादेरज्" [ ६५ ] इत्यञ् स च द्विः ॥ रक्षोभिः पशुभिदमिनिभिरौलपिभिर्वृतः ।
श्रीमतैः त्रैमतैश्चामुं बल्लालो दर्पतोभ्यगात् ॥ ९७ ॥ ९७. स्पष्टः । किं तु रक्षांसि पर्शवो दामनय औलपयश्च शस्त्रजीविसंघे(घा?)स्तैस्तथा श्रुमतः श्रीमतश्चापत्यानि श्रीमताः त्रैमताश्च त एव औमताः त्रैमताश्च तैश्च वृतः॥
शामीवत्याभिजित्याभ्यां शैखावत्येन चैष ते । कृत्यौ विभेद सामन्तौ नाम्ना विजयकृष्णकौ ॥ ९८ ॥ ९८. एष च बल्लालो नाना विजयकृष्णको ते तव सामन्तौ बिभेद । कैः कृत्वा । शामीवत्याभिजियाभ्यां शैखावत्येन च शमीवतोभिजितः शिखावतश्चापत्यैः । यतः कीदृशौ । कृत्यौ करणीयौ भेदाहावित्यर्थः ।।
शालावत्योर्णावत्याभ्यां वैदभृत्येन चेरितौ । किंराजानमराजानौ सुराजस्तौ तमीयतु(तुः) ॥ ९९ ॥
१सी पशुमि. २ एतः श्रेमतेश्चा'. ३ ए मीवित्या. ४ सी मेदे सा. ५ सी को ।। ते तव. ६ ए मीयुधः ।। हे.
१ सी ह्मण्यरा'. २ ए जनेभ्य. ३ सी धेयः । . ४ सीमनेय. ५ सी घस्त'. ६ सी तैर्वृत ॥ शा. ७५ मे कैः. ८ सी याभ्यो 3. १९ दाहावि.