SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५१२ याश्रयमहाकाव्ये [कुमारपलः नपि यथास्थानं मुत्कलितवानित्यर्थः । कीहक्सन् । संभाषमाण आलपन् । किंभूनान्सतः । भूरिशः प्रभूतैर्दास्थैर्वेत्रिभिः पटपटाकृत्य मि. त्यादिषु प्रतिशब्दैः पटच्छब्दं कृत्वा स्मारितान् ॥ अस्तोकशो रिपूंजिष्णुं तं पौरा एकशोभ्ययुः । अश्वमश्वं ढौकयतस्तोन्सोप्येकैकमालपत् ॥ ४४ ॥ ४४. तं भैमि पौरा एकशे एकैकोभ्ययुरभिजग्मुः । यतः स्तोकान्स्तोकशो न तथास्तोकशो बहूनिपूजिष्णुम् । सोपि भैमिरप्यश्वमश्वं ढौकर्यतः प्राभृतीकुर्वतः सतस्तान्पोरानेकैकमेकमेकमालपत् ।। नादण्डयविपदिकां न स द्विशतिकां च यान् । द्वे ते ददानास्ते ग्राम्या अश्वशश्च तमभ्ययुः ॥ ४५ ॥ ४५. स भैमिर्यान्प्राम्यान्द्विपदिकां द्वौ पादौ रूपकादेवौँ भागावपि नादण्डयत् । द्विशतिकां च रूपकादेढे शते च नादण्डयत्ते ग्राम्यास्तं भैमिमभ्ययुः । किंभूताः सन्तः । ते द्वे द्विपंदिकाद्विशतिके अश्वशश्वाश्वमश्वं च ददानाः ॥ ये लभन्ते द्विपदिकां वृत्तौ द्विशतिकां च ये । तानप्युत्कास्थितान्पश्चात्सोपश्यस्निग्धया देशा ॥४६॥ ४६. ये भटा वृत्तौ जीविकायां द्विपदिकां रूपकादेवौं द्वौ पादौ भागौ भोजनमात्रमित्यर्थः । लभन्ते ये च द्विशतिका रूपकोदेढे द्वे १ ए 'पूजिष्णुं. २ बी यन्तस्तान्सोप्यक. .३ ए श्यस्निग्ध . ४ ए दृशाः ॥ ये. १बी रितवान्. २ बी °श एकैकश ए. ३ सी कैकेभ्य. ४ बीयत प्रा. ५ बी सी कमा'. ६ ए °न्द्विपादि'. ७सी देवैश. ८ एतिका च. ९ए पदाका. १० वी शतके. .११ सी नमि'. १२ ए °का.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy