SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.२.१२५. ] एकोनविंशः सर्गः । ५०३ कृत्वा श्लाघ्यम् । किम् । विन्ध्याद्रेर्विन्ध्यशैलात्पूर्वेण पूर्वादूरा दिग्देशो वा । तथोत्तरपश्चादुत्तरी च सापरा चोत्तरापरा दिग्देशो वा वायव्यकोणस्तथापागपाची दक्षिणा दिग्देशो वा तथा पश्चाचापरा पश्चिमा दिग्देशो वा । उपलक्षणत्वाद्विन्ध्याद्रेरष्टापि दिशो देशा वेत्यर्थः । यतः । किंभूतैः । जातैः । क । विन्ध्याद्रेः पूर्वेण । तथोत्तरपश्चात्तथापाक्तथा पञ्चाच्च पूर्वेण श्लाघ्यम् ॥ ४ पूर्वेण जातैः । अत्र “अदूरे एनः " [ १२२ ] इत्येनः ॥ अपाक् श्लाध्यम् । अपाग्जातैः । अत्र “लुबञ्चे:" [ १२३ ] इति धात्व यस्य लुप् ॥ पश्चात् । उत्तरपश्चात् । अत्र “पैश्चः ०" [ १२४ ] इत्यादिना पश्चादेशः ॥ इत्युक्त्वोत्तरपश्चार्धभूपते स्थितेत्रवीत् । क्ष्मापरार्धं खपश्चार्धं शुक्लीकुर्वन्स्मितैर्नृपः ॥ २५ ॥ २५. स्पष्टः । किं तूत्तरपश्चार्धभूपदूत उत्तरापरस्या दिशो यदर्धमुत्तरदिग्विभागस्तस्य भूप आन्नस्तस्य दूते । क्ष्मापराधं खपश्चार्ध पृथ्व्या व्योम्नश्चापरमन्यतममँर्धं खण्डमेकमित्यर्थः । नृपो भैमिः अरूकुर्वन्रजीकुर्वन्संमुखीभवतो रणे । अस्मानप्युन्मनीकुर्वन्यूनी स्यादान्नकः कुतः ॥ २६ ॥ २६. आन्नकः कुतो न्यूनीस्याद्धीनो भवेन्न कस्मादपीत्यर्थः । कीदृक्सन् । रणे संमुखीभवतो भटानरूकुर्वन् शस्त्रव्रणवतः कुर्वंस्तथा १ बी सी 'त्युक्तो'. २ ए सी शु. २ बी 'रा चासा अप.. १ ए बी 'विन्ध्य.. देशो वे. ५ बी पश्चा इ. ६ सी 'तरस्याप'. 'पो नैमि ॥ अ. ९ सी 'तोपि न्यू. ३ बी 'क्षणाद्वि. ७ बी "मर्दा ख. ४ सी ८ ए
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy