________________
व्याश्रयमहाकाव्ये
(कुमारपालः
मैत्रावरुणीयं सूक्तमेवमपि वाक्ये । यज्ञायज्ञीयं साम । दैवासुरो गर्दभाण्डश्चाध्यायोनुवाको वा द्वन्द्वे तांस्तथा गर्दभाण्डीयेषेत्वकाभ्यामध्यायाभ्यामनुवाकाभ्यां वा सहितं घोषच्छब्दोत्रास्ति घोषदकमध्यायमनुवाकं वा ॥ मैत्रावरुणीय । यज्ञायज्ञीय । इत्यत्र "सूक्त." [७१ ] इत्यादिनेयः ॥ गर्दभाण्डान् । गर्दभाण्डीय। इत्यत्र "लुब्वा०" [७२] इत्यादिनेयस्य लुब्वा ॥ वैमुक्त । दैवासुर । इत्यत्र "विमुक्तादेरण्" [ ७३ ] इत्यण् ॥ घोषदकम् । इषेत्वकम् । अत्र "घोषदादेरकः" [७४ ] इत्यकः ।
सुस्थूलकैः प्रहरतोर्दशनैः प्रवीर
जातीययोस्तदिभयोरुदगुः स्फुलिङ्गाः । भ्रष्टुं क्षमा यवककृष्णकजीर्णकादि
गोमंत्रकं दिव इवानणुकं दिशन्तः ॥ ९५॥ ९५. तदिभयोभैम्यानगजयोः स्फुलिङ्गा दन्तसंघटोत्था अग्निकणा उदगुरुच्छलिताः । यतः स्थूलः प्रकार एषां स्थूलकाः सुष्टु स्थूलकाः सुस्थूलकास्तैरतिस्थूलैर्दशनैः प्रहरतोः । एतदपि कुत इत्याह । यतः प्रवीरः प्रकारो ययोस्तयोः प्रवीरजातीययोः प्रकृष्टशूरयोः । किंभूताः । यवप्रकारा यवका ब्रीहयः कृष्णप्रकाराः कृष्णकास्तिला जीर्णप्रकारा जीर्णकाः शालयो द्वन्द्वे तदादि वस्तु भ्रष्टुं दग्धुं क्षमास्तथारक्तप्रभूतातिसान्द्रत्वादिवो व्योनो गोमूत्रकमिव गोमूत्रप्रकारं गोमूत्रवर्णमाच्छा. __ १५ मूत्रिकं.
१सी ग्रे वा. २ बी सुरौ ग'. ३ बी 'ध्यायानु. ४ ए वाक्याभ्यां. ५ बीभ्यां स. ६ बी सी पशब्दो'. ७ बी दकं । इषे. सी दकं वाध्या. ८ ए क । देवा'. ९सी क । म. १० बी सी स्थूलप्र. ११ बी दर्शनैः. १२ ए वीरजा. १३ बी टसर'., १४ सी स्तमार'.