________________
४५०
ब्याश्रयमहाकाव्ये
[ कुमारपालः]
किमित्याह । हे सुभट भवता तनोरङ्गस्य मूल्यं मूल्यभूतमधीशवित्तं स्वामिद्रव्यं द्वौ गुणावस्य मूल्यभूतस्याधीशवित्तस्य द्विमयं द्विगुणमात्रं स्वपराक्रमस्य मानेन द्विगुणं स्वामिद्रव्यं त्वया गृहीतमास्त इत्यर्थः । तस्मात्तस्याधिकस्य द्रव्यस्य कार्य युद्विशेष दर्शयेत्यर्थाद्गम्यत इति । एवं वदतो महारेः शिरश्छेदरूपेणावदातेनातिरञ्जितत्वादेतत्पराक्रमापेक्षया मंयातिस्वल्पमेव दत्तमिति स्वाम्यज्ञासीदित्यर्थः ॥
द्वयेन द्वितयम् । त्रयेण त्रितयम् । अत्र “द्वि." [१५२] इत्यादिना वायद ॥ द्विमयं यशः स्वजीवस्य । द्विमयं स्वजीवं यशसः। द्वितीयार्थव्याख्याने । द्विमयमधीशवित्तं तनोर्मूल्यम् । द्विमयं वयू रायः केयम् । अत्र "द्यादे०" [१५३] इत्यादिना मयट् ॥ एकादशं त्रिंशमथैकविंशं शतं सहस्रं कनकस्य लब्धा । एकादशो रुद्र इवारिमौलि भर्ने ददनिष्क्रयमाप कोपि ॥४९॥
४९. कोपि भटो निष्क्रयं कनकलाभस्यानृण्यमाप । कीदृक् । कनकस्य शतं सहस्रं च लब्धा लभमानोपि । किंभूतम् । एकादश त्रिंशदेकविंशतिर्वाधिकास्मिञ् शते सहस्रे वा तदेकादशं त्रिंशमथाथ वैकविंशम् । ईदृग्महादानस्यापि निष्क्रयं कथर्मीपेत्याह । यतोरिमौलिं भर्ने ददत् । ईदृशोपि कुत इत्याह । यत एकादशानां पूरण एकादशो रुद्रः पिनाक्याख्यस्तत्तुल्यो महावीर्यत्वात् । रुद्रोपि हि देवत्वापू(त्पू)जार्थ भक्तेभ्यः कनकस्य शतं सहस्रं वा लब्धा स्यात् ॥ १ए रिमैलिर्भत्रं. २ सी पि ॥ किंभू'. १पण वदतो. २ सी क्रमास्य. ३ बी मस्यामा'. ४ ए ये बुदिशे. ५ ए मति'. ६ ए यधी'. ७ सीम् । कीदृ'. ८ सी °माप्येत्या . ९बी सी नाकाख्य. १० ए क्यास्त. ११ सी पि देवतापू.