SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [है• ६.४.१७.] सप्तदशः सर्गः । ३३९ १०. अवैशिक्यो वेशेन वेश्यागृहेणाजीवन्त्यः कुलाङ्गनाः पुष्पवल्लिषु पुष्पोच्चयार्थ पुष्पाढ्यलतानां समीपे लीलानां विलासानां क्रयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु क्रयेण विक्रयेण क्रयसहितो विक्रयः क्रयविक्रयस्तेन वा जीवन्त्य इवासन् । मूल्येन ग्राहिका इव दायिका इव वा । ग्रहणदाने द्वे अपि कुर्वाणा इव वासन्नित्यर्थः । यतश्चलनादिवैशिष्टयं विलासः सोस्यासां विलासिन्यः । स्त्रीषु लतासु च चलनादिवैशिष्ट्यरूपाणां विलासानां सद्भावादेवमाशङ्का ॥ श्वगणिक श्वागणिक । इत्यत्र "श्वगणाद्वा" [१४] इति वेकट् ॥. वैतनिकः । वैशिक्यः । अत्र "वेतनादेर्जीवति" [१५] इतीकण् ॥ क्रयविक्रयिकाः । कयिकाः । विक्रयिकाः । अत्र "व्यस्ताच्च०" [१६] इत्यादिनेकः ॥ वत्रिकायुधिकानायुधीयत्रातीनदारवत् । किं दून्भ्राम्यसि पत्येति श्रान्तोचे कापि संभ्रमात् ॥११॥ ११. कापि खी श्रान्ता पुष्पोच्चयनार्थमनेकतरुषु भ्रमणात्खिन्ना सती पत्या संभ्रमात्प्रेमातिरेकोत्थादादरादूचे । कथमित्याह । वस्त्रं मूल्यं तेन जीवन्ति वस्निका: कर्मकरास्तथायुधेनोपचारादायुधकर्मणास्त्रकरणादिना जीवन्त्यायुधिका लोहकाराद्या अनायुधीया आयुधकर्मानुपजीवि १ बी त् । कं . १ए वेश्येन. २ सी "यिकाः किं. ३ ए यः वि. ४ ए मूलोन. ५ सी द्वे कु. ६ सी °णा अपि वा. ७ सी ललना. ८ ए शिष्यं वि. ९ ए च वल'. सी च लल'. १० ए °णिकः श्वा. ११ सी क । ई. १२ सी 'नेकेषु त”. १३ बी पत्याः सं. १४ ए °स्तिका क. १५ सीमकारा. १६ ए बी लोहारा
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy