SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ [है०६.२.५३.] पञ्चदशः सर्गः । गोमय । इत्यत्र "गोः पुरीषे" [ ५० ] इति मयट् ॥ व्रीहिमयान् । इत्यत्र "व्रीहेः ० " [ ५१ ] इत्यादिना मयद ॥ कुम्भैर्यवमयोत्पेषगौरैश्चत्रैरिवाबभौ । नेमिस्तिलमयक्षोदस्निग्ध ओघो नु यामुनः ॥ ७६ ॥ 9 ७६. तिलमयक्षोदस्निग्धस्तिलवर्तिवदरूक्षकालिमगुणो नेमिः कुम्भैः स्वर्णकलशैः कृत्वाबभौ । किंभूतैः । यवानां विकारो यवमयं यवपिष्टं तेन य उत्पेष उज्ज्वालनं तेन गौरैर्निर्मलैः । यथा तिलमयक्षोदस्निग्धो यामुन ओघः प्रवाहो गौरैः स्वर्णवर्णैश्वश्चक्रवाकैर्भाति ॥ पुजा पिष्टमयैर्गन्धैर्याव गौरैरतैलया । उद्वर्तितः पिष्टिकया सोस्तहैयङ्गवीनया ॥ ७७ ॥ ७७. पिष्टिकया दलिता मुद्गादयः पिष्टं तद्विकारेणातिसूक्ष्मेण पिष्ठेन कृत्वा स श्रीनेमिनाथ उद्वर्तितो राज्ञोज्वालितः । कीदृश्या । गन्धैः कुष्ठादिभिर्गन्धद्रव्यैर्युजा युक्तया । किंभूतैः । यवस्य लाक्षाया विकारो यावोलक्तकस्तद्वगौरैः पीतवर्णैस्तथा पिष्टमयैः कुष्ठादयः किंचिचूर्णिताः पिष्टं तस्य विकारैरतिश्लक्ष्णपिष्टरूपैरित्यर्थः । तथातैलया तिलविकारेण स्नेहेन रहितयात एवातिरूक्षत्वादस्तं क्षिप्तं हैयङ्गवीनं ह्योगोदोहस्य विकारः प्रतिमालम्नं स्नानघृतं यया तया ॥ तिलमय । यवमय । इत्यन्न “तिल० " [ ५२ ] इत्यादिना मयद ॥ अनानीति किम् । अतैलया । याव ॥ १ ए यामनुः । ति १ बी यं पि. ५ एतं हेयं. त्यत्र. २३७ २ सी उत्प्रेक्ष्य उ°. ६ बी 'तं तया त'. ३ ए सी चिचूर्णि ४ सी त
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy