________________
२३२ ढ्याश्रयमहाकाव्ये
[जयसिंहः ] ६६. औष्ट्रकपयस्योपजीविनामप्युष्ट्या विकार औष्ट्रकं यत्पयस्यं पयसो दुग्धस्य विकारो वित्रुटितदुग्धादि तदुपजीविनामप्युष्टपालानामपि । ते हि निर्दया निर्धर्माश्च स्युस्तेषामप्य॑मुतो गिरेः सकाशाद् गम्ययबपेक्षया पञ्चम्याममुं प्राप्य वा पावनी दयादिना पवित्रा धीः स्यात् । यथा दोर्दारुणो विकारः काष्ठखण्डं द्रव्यं तेन घृष्टा या शामीला शमीवृक्षावयवो यष्टिस्तस्याः सकाशात्तां प्राप्य वाग्निः स्यात् ॥
शामील । इत्यत्र "शम्या लः" [३४] इति लः ॥ पयस्य । द्रव्य । इत्यत्र “पयोद्रोर्यः" [३५] इति यः ॥ औष्ट्रक । इत्यत्र "उष्वादकञ्" [ ३६ ] इत्यकञ् ॥ सोथामुच्यौमकं वासः पौलस्त्येनौमवाससा ।
दत्तहस्तोद्रिमध्यास्त दर्शिताध्वौर्णकाम्बरैः ॥ ६७ ॥ ६७. स्पष्टः। किं त्वौमकमुमाया अतस्या विकारं वासो वस्त्रं धौतवस्त्रिकामित्यर्थः । आमुच्य परिधीय दत्तहस्तो दत्तवाहिकः । एतेन पादचारेणारोहकथनम् । और्णकमाया विकारोम्बरं येषां तैः सौराष्ट्रः । ते घूर्णवस्त्रं परिदधति ॥
औDणेयत्वक्पटानां कौशेयान्यध्वदर्शिनाम् । मुक्तपारशैवास्त्राणां दत्वा चैत्ये नृपोविशत् ॥ ६८ ॥
१ बी सी औणेणे'. २ ए णणय'. ३ बी 'शवस्त्रा'. ४ ए शयत्.
१ सीना उष्ट्या. २ ए रो त्रु'. ३ बी मपि । ते. ४ सी प्यमतो. ५ बी पाठनी. ६ बी द्रो इ. ७बी "स्त्रिकमि. ८ सी धैः । अमु. ९ए धायाद. १० सी दत्तावा. ११ बी और्णमू. १२ सी ट्रैः। झू.