SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ध्याश्रयमहाकाव्ये पञ्चदशः सर्गः। भ्रातृव्यान्सोतिगार्गास्तानथ गार्गिकमत्रिणः । सभ्रात्रीयान्सस्वस्त्रीयान्धृत्वा निववृते ततः॥१॥ १. अथ स जयसिंहस्ततो मालवदेशान्निववृते । किं कृत्वा । सभ्रात्रीयान्सस्वस्रीयान्भ्रात्रपत्यभगिन्यपत्यसहितानुपलक्षणत्वात्सबान्धवानित्यर्थः । तथा भ्रातृव्यान्भ्रातुरपत्यानि भ्रातृव्या एकद्रव्याभिलापित्वाद्भातृव्या इव भ्रातृव्यास्तान महाशत्रूनित्यर्थः । तान् यशोवर्मादिनृपान्धृत्वा गुप्तौ क्षित्वा । किंभूतान्सतः । गार्गिका गार्या अपत्यानि स्वामिने स्रीजनोचितकुमन्त्रदानेनाज्ञेयपितृकत्वान्निन्द्या युवानो मत्रिणो येषां तानत एवातिगार्गाने राज्याझंशेन स्वपूर्वजनानोपि हारणेतिनिन्द्यत्वाद्गार्या अपत्यं निन्धं युवानमतिकान्तान् । गार्गान् । गार्गिक । इत्यत्र "वृद्ध" [८७ ] इत्यादिना णेकणौ ॥ भ्रातृव्यान् । इत्यत्र "भ्रातुर्व्यः" [ ८८ ] इति व्यः ॥ भात्रीयान् । स्वस्त्रीयान् । इत्यत्र “ईयः स्वसुश्च" [ ८९ ] इतीयः ॥ मार्गेभात्तैः समातृष्वस्रीयपैतृष्वसेयकैः । पैतृष्वस्रीयो नु हरेः सोतिमातृष्वसेय कः ॥२॥ २. स जयसिंहः समातृष्वस्रीयपैतृष्वसेयकैर्मातृभगिनीनां पितृ१५ सीनिया यु. २ बी वागार्याने'. ३ ए °णे इनि.सी णेपि नि. ४ बी गार्यान्.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy