SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२६ ढ्याश्रयमहाकाव्ये [जयसिंहः] पान्तरं गत्वा त्वया सह सुखं त्वयाविरहितत्वेनैव सुखकारि पयःपानं दुग्धपानं करिष्यामि । एषा हि नागभार्या । नागानां च दुग्धमेव प्रियमित्युक्तं पयःपानं करिष्यामीति ।। राजाच्छादनवस्त्रा प्राग्नन्दनी रमणीषु या । प्रसादकारणात्ते सा यायां प्रपतनं न वा ॥ २४ ॥ २४. याहं प्राक्प्राचि काले ते तव प्रसादकारणात्प्रसादाद्धेतो रमन्ते कान्तेषु रमण्यस्तास्वन्यभार्यासु मध्ये नन्दनी समृद्धा मुख्येत्यर्थः । अभूवम् । कीटक्सती । राजाच्छादनानि राजभिः परिधेयान्यतिश्रेष्ठानीत्यर्थः । वस्त्राणि यस्याः सा साहं ते प्रपतनं झम्पादानस्थानं न वा यायां काका किं तु यातुमर्हामि । “शकाहे कृत्याश्च" [५. ४. ३५ ] इत्यहें सप्तमी। त्वया सहास्म्यपि झम्पां दास्यामीत्यर्थः ॥ भोजनाच्छादने लुब्धा प्राप्ते प्रस्कन्दनं त्वयि । इध्मत्रश्चनगोदोहनीभृत्स्थास्यामि किं वहम् ॥ २५ ॥ २५. त्वयि प्रस्कन्दनं कूपे पतनाय तत्तटं प्राप्ते सति भोजनाच्छादने भोजने वस्त्रे च लुब्धा सती किं न्वहं स्थास्यामि । कीदृशी । इध्मव्रश्चनगोदोहनीभृत्काष्ठभारानयनाय गवां दोहनाय च परशुपारिकाधारिणी । इदमुक्तं स्यात्पतिं विना हि र्खिया भोजनायाच्छादनाय च काष्ठभारानयनगोदोहनादिनीचकर्माण्येव कार्याणि तान्यहं पतिमनुगच्छन्ती नैव करिष्यामीत्यर्थः । १ वी नां हि दु. २ ए सादाद्धे. ३ ए समुद्रा मुखेत्य. सी डी समुद्रा मु. ४ बीद्धा सुग्वेत्य. ५ बी साहं. ६ डी स्त्रियो भो'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy