________________
९२
व्याश्रयमहाकाव्ये
[ जयसिंहः ] ये दण्डा हस्तग्राह्ये मध्यभागे सूक्ष्मा उभयोश्चान्तयोः पृथुला वरच्छीति नाम्ना प्रसिद्धा यष्टिभेदास्ते धुवित्रदण्डा द्वन्द्वे शोभनाः सवित्रकारिवधुवित्रदण्डा येषु तैस्तथान्धवित्रैर्जलक्षेपणैः ॥ शिरसां लवित्रैर्वपुषां खनिर्भयनेत्रयोत्रैः क्षणदाटशस्त्रैः । अतितोत्रसेत्रालघुयोक्रनद्रिस्रविमेढ़काः पत्रहयाः प्रणेशुः ॥४७॥
४७. क्षणदाटशौहेतुभिः पत्रहया रथा अश्वाश्च प्रणेशुः । यतः शिरसां लवित्रैर्वपुषां खनित्रैरत एव भयनेत्रयोत्रैर्भयस्य नेत्रैः प्राप. गैयौत्रेश्च संयोजनेश्च । किंभूताः सन्तः । तोत्रसेत्राणि प्राजनरइनितिक्रान्ता भयेनातिपलायनादवज्ञातवन्तोतितोत्रसेत्रास्तथालघवोतिशीनं पलायनेन बन्धानां शिथिलीभावात्प्रलम्बमाना योक्राणां योत्राणां नद्भयो ध्रिका येपु ते तथा। बाहुलकात्समासान्तविधेरनित्यत्वावा कजभावे ह्रस्वोत्र । तथा स्रवो भयेन मूत्रमस्त्येषां स्रवीणि मेदाणि लिङ्गानि येषां ते तथा । एषु विशेषणकर्मधारयः ॥ अतिदानदंष्ट्ररतिपोत्रवः पिशिताशनैः स्तोत्रवलैवलेषु । अनुधात्रि नष्टेषु नृपश्चकोप विजयकपात्रं शरसेऋधन्वा ॥४८॥
४८. शराणां सेकं अरणं धनुर्यस्य॑ स तथा महाधनुर्धर इत्यर्थः । अत एव विजयैकपात्रं नृपो जयसिंहो वलेषु विषये चुकोप । यतोनुधान्यामलकीतरूणां समीपे नष्टेषु । कैर्हेतुभिः । पिशिताशनै राक्षसैः ! किंभूतैः । अतिदात्रा दात्रेभ्योपि वक्रा द्रष्ट्या येषां तैस्त
१ बी 'रीति. २ बी ‘दा धु'. ३ ए सी डी धास्ववि. ४ ए सी डी 'नराशन. ५ बी इमीरति°. ६ बी वधिका. ७ डी द्वाज. ८ बी त्रणम. ९ वी °णि मेंदा. १० ए °स्य त. ११ ए सी डी षां ते तथा