________________
[है० १.३.४७.]
प्रथमः सर्गः ।
यद्यपि स्वर्गाडम्बरोधिकोपि वाच्य: स्यात् तथापि पत्तनाडम्बरात्स्वर्गाडम्बरो हीन एव ज्ञेयः । पत्तनस्यात्र वर्ण्यत्वान् ।। ___ एष प्रैपः । सकोपि । प्रैप वा ॥ प्रस प्रभु । इत्यत्र "एतदश्च" [६] इत्या. दिना सेल्क् ॥ अननसमास इति किम् । एषकः किम् । सकः स्वर्गः । अनेषो हि । असः किम् ॥ व्यञ्जन इति किम् । एषोत्र । सोपि ॥
सरूपयुक्ताः समाग्रे राजन्त्यत्र कुलस्त्रियः । व्यञ्जनाग्रे पञ्चमान्तस्थावद्वालोपशोभिताः ॥ १०४ ॥ १०४. अत्र पुरे वालैः केशैः। बवयोरैक्याद्वालैरर्भकैर्वा । उपशोभिता: कुलत्रियः सद्माग्रे गृहद्वारदेशे सरूपयुक्ताः सरूपैः समानरूपैर्भर्तृभिर्युताः सत्यो राजन्ति शोभन्ते । भवति हि शोभातिशयः स्त्रीणां समानभर्तृयुक्तानाम् । यथा वा विकल्पेन लोपो वालोपस्तेन शोभिता वालोपशोभिताः पञ्चमान्तस्था उनणनमयरलवा वर्णा व्यञ्जनाले व्यञ्जनात्पराः सरूपयुक्ताः सरूपैः समानरूपैर्डअणनमयरलवैर्युक्ताः सत्यो सन्तो?] राजन्ति ॥
क्रुश्चो ड्डौ कुडौ कुंडो। अदितेरयमादित्यः स देवतास्य आदित्यः स्थालीपाक आदित्य्य इति वा । इत्यादिषु हि व्यञ्जनात्पराः पञ्चमान्तस्थाः सरूपेषु परेषु "व्यञ्जनात्पञ्चमा" [५७ ] इत्यादिना वा लुप्यन्ते । एतेन "न्यजनात्पसमा" [४७] इत्यादिसूत्रोदाहरणानि सर्वाण्यपि सूचितानि ॥
१ एफ भुतेत्य'. २ सी डी हि सकः कि. । एफ हि । असोवाव्य'. ३ सी 'बोसोपि।।स'. ४ ए त्र ॥. ५ सी शैर्बबयो डी शैर्वबयो'. ६ बी ताः सह स. ७ ए बी एफ न्ति भ. ८ एफ भिताः पध. ९ सी रूपैई. १० डी 'नयुक्तैरू. ११ डी कुंड्डौ कुंडौ. १२ सी कुंडौ १३ डी °दित्या. १४ एफ पु व्य.