SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [ है० १.३.३०. ] प्रथमः सर्गः । अजारजः खररजस्तथा संमार्जनीरज: । दीपमञ्चकयोश्छाया लक्ष्मीं हन्ति पुराकृताम् ॥ इति ॥ दीपिकाच्छाया खट्टाछाया । इत्यत्र “अनाड्याङ” [२८] इन्यादिना वा छस्य द्वित्वम् ॥ अनाङ्याङ इति किम् । आच्छायाम् । माच्छिदत् ॥ डिस्करणान्माच्छाया इत्यत्र विकल्प एव । तेन पक्षे माछाया इत्यपि ज्ञेयम् । आसाहचर्येणान्ययस्य माझे ग्रहणात्प्रमाछवी नित्यत्रापि विकल्पस्तेन प्रमाच्छवी नित्यपि ज्ञेयम् ॥ " ५५ हे ३च्छातोदरि हे ३ छेके तन्वि ३च्छद्म न यद्विधुः । हीच्छन्निच्छति ते वक्रच्छायामत्रेति गीर्नृणाम् ॥ ८१ ॥ ८१. अत्र पुरे नृणां प्रस्तावात्कामिनामित्येवंविधा गीरस्ति । यथा हे ३ च्छातोदरि कृशोदरि हे ३ छेके हे तन्वि ३ कृशाङ्गि त्वन्मुखेन्दीवरलक्ष्म्या निर्जितत्वादू हीच्छन् लज्जमानः सन् विधुश्वन्द्रो यत्ते वच्छायां मुखलक्ष्मीमिच्छति प्राप्तुं वाञ्छति तन्न च्छद्म न कूटं किं तु सत्यमेतदित्यर्थ इति ॥ हे ३च्छातोदरि हे३छेके । इत्यत्र “हुताद्वा" [२९] इति वा द्वित्वम् ॥ हेहैष्वेषामेव” [७.४.१००] इति मुतः ॥ दीर्घादित्येवं । तन्वि३ च्छद्म । “दूरादामध्य” [ ७.४.९९] इत्यादिना श्रुतः ॥ इच्छति । हीच्छन् । वक्रच्छायाम् । इत्यत्र “स्वरेभ्यः” [३०] इति पदान्तेपदान्ते च द्वित्वम् ॥ ब्रह्मवद्ब्रह्मवेत्तारो हुतार्काः कर्कशत्विषा । कीर्त्त्या प्रोर्णोनुवत्याशा अस्मिन्नर्हा गुणहदाः ॥ ८२ ॥ ८२. अस्मिन्पुरेर्हन्ति पूजामित्यर्हा योगिनः कीर्त्या साधुवादेनाशा 3 १ ए बी सी डी सन्मार्ज २ एकू 'राजिता ३ बी वंगी. ४ बी के३ हे. ५ एफू ३ . ६ सी डी 'ब्वेकामे'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy