________________
६८३
[ह० ४.२.६२. नवमः सर्गः।
निखन्यासंन्यमानः प्राक्कोश उत्खाय सायते ।
प्राणान्सन्याः स्थितिं साया गौडेनं त्वेति जल्पता ॥३८॥ ३८. गौडेन गौडदेशाधिपेन प्राक्पूर्व निखन्य निधानीकृत्यासन्यमानोदीयमान: कोशो भाण्डागारमुत्खाय निखातादुद्धृत्य सायते तुभ्यं दीयते । किंभूतेन सता । त्वा त्वां जल्पता । कथमित्याह । हे चेदे प्राणाञ्जीवितं सन्या देयाः स्थितिमवस्थानं देशं च साया इति ।।
उत्खातः । सातिः । अजात । इत्यत्र “आः खनि" [ ६० ] इत्यादिनान्तस्यात् ॥ सिपासति । इत्यत्र “सैनि" [६१ ] इत्यन्तस्यात् ॥
उत्खाय निखन्य । सायते सन्यमानः । जाजायते जञ्जन्यमान । इत्यत्र “ये न वा" [ ६२ ] इति वान्तस्यात् ॥ य इत्यकारान्तनिर्देशादिह न स्यात् । सन्याः । अन्यथा यीति क्रियेत ॥ केचिदत्रापीच्छन्ति । सायाः ॥
तन्यतेर्जुनवंशश्रीर्यशोधिध्वाव तायते ।
सातेः सन्तेः सतेश्चाग्रेगानों खाना द्विषां त्वया ॥ ३९ ॥ ३९. सहस्रार्जुनवंशोत्पन्नत्वात्त्वयार्जुनवंशश्रीः सहस्रार्जुनान्वयलक्ष्मीस्तन्यते विस्तार्यते । यतो द्विषां खानोन्मूलकेन तथा सातेः सन्तेः सतेश्चैवनामराजविशेषेभ्योग्रेगाना स्वामित्वादग्रसरेण । अत एवाब्धिषु घोणते भ्राम्यत्यधिध्वाव यशस्तायते विस्तार्यते ॥
१ ए सी प्राकोश. २ बी न विति. ३ ए ब्धिष्वाव. ४ अत्र "कवर्गकस्वरवति" [२-३-७६ ] इति णत्वेन भाव्यमिति भाति ।
१ए हेवेत प्रा. २ ए णाच्छीवि. ३ ए सी डी'ति । अ. ४ ए समि . ५ए 'त्खाया निखन्य । स्पेयतो । मन्य'. ६ सी न । सन्यः । अ. ७ ए सी साया ॥. ८ ए हार्जु. ९ सी डी ई हार्जु. १० ए. "ब्धिश्चावयवश. ११ सीते ॥ ता.