________________
द्याश्रयमहाकाव्ये नवमः सर्गः ।
fier'परिस्खादंपरिस्खादं परिस्वदंपरिस्खदम् ।
स परिस्खदयन्दृतान्भीमोथ प्रतिचेद्यगात् ॥१॥ १. अथ हम्मुकवशीकरणानन्तरं स प्रसिद्धो भीमः प्रतिचेदि चेदिदेशाभिमुखमगात् । कीदृक्सन् । दृप्रान्दर्पिष्ठानृपान्परिस्खादंपरिस्खादं स्खदि हिंसास्थैर्ययोः । रणे स्थिरैर्भाव्यमिति स्थिरीकृत्य स्थिरीकृत्य परिस्वदंपरिर्वेदं स्वसैन्यैर्घातयित्वा घातयित्वा परिस्खदयन् स्थिरीकुर्वन्यातयंश्च ॥
अपस्वादमपस्खादमपस्खदमपस्खदम् । यस्पास्खादि तै पास्खद्यस्य वहतो बले ॥२॥
२. तैश्चरटेश्वरैरस्य भीमस्य वहतो गच्छतो वले नापोस्खदि मृत्युभयान्न किमपि विनाशितम् । यैरपस्खादमपस्खादमपस्वदमपस्खदमभीक्ष्णं स्वभटैर्घातयित्वा घातयित्वापास्खादि घातः कारितो यैर्नृपादयोपि गच्छन्तः प्रच्छन्नधाटीपातादिनोपद्रुता इत्यर्थः ॥
१ वी सी बी अहम् । १. २५ °रिरकादं. ३ ई बलेः ॥.
स्खद'.
१ सी दिदे'. २ ए सास्तय'. ३ ए रणे स्थि'. ४ सी ५ वी पास्खादि. ६ बी सी डी क्ष्णं सुभ.
८४