________________
६५८
व्याश्रयमहाकाव्ये
[भीमराजः]
मपाययच्छत्रुभिरखादयदशोपयद्वा प्रकाशयदित्यर्थः । अत एव भुवं वाजयगाढपादप्रहारैः कम्पयदत एव वाद्रीनभिधावयत्कम्पयत्तथाहो एनं भटं छाययारीश्छिन्दन्तं प्रयुकाभिशपर्य वाटेररीस्तक्ष्णुवन्तं प्रयुङ्केति जल्पच्छत्रुवधार्थ स्वभटान्प्रयुञानमित्यर्थः । अत एव स्व. मात्मीयं ज्ञाति वा लोकं प्राययत्तीणयत् ॥ हाययत्समवसाययदाशु व्याययत्समभिवाययदक्षैः । लेपयद्भयमनर्पयदन्योन्यं चमूद्वयमरेपयदुच्चैः ॥ ११८ ॥
११८. भयमनर्पयदात्मानं भयमप्रापयंनिर्भीक मित्यर्थः । चमूद्वयमुचैरतिशयेनान्योन्यं कर्मारेपयद्गमयामास मिलितमित्यर्थः । कीदृक् । अन्योन्यं ह्वाययत्सस्पर्धमाकारयत्तथान्योन्यं ब्लेपयद्वरयत्तथास्त्रैरन्योन्यमाशु व्याययदाच्छादयत्तथान्योन्यमस्त्रैः कर्तृभिः समभिवाययदस्त्राणि सीव्यन्ति प्रयुञ्जानं किं वहुनान्योन्यं समवसाययदन्तं प्रापयन् ॥ माप्यते किमु चमूरिति भीमः कोपयन्स्वयमहेपितवंशः । प्रापयन्समिति सिन्धुपतिश्व स्फावयन्निषुगणं प्रडुढोके ॥ ११९ ॥
११९. भीमः स्वयं समिति रणे प्रडुढौके ।कीहक्सन् । अहेपितवंशोनेकावदातैरलज्जापितान्वयोत एव कोपयन भट्टमुखेन हम्मुखं जल्पयन् । किमिया॑हैं । अहो हम्मुक चमूः किमु किमिति क्षमाप्यते १ बी सी डीई खैः । ब्लेप'.
१ सी डी ढप्र. २ बी तदाहो. ३ बी यारीच्छिन्द'. ४ डी रीस्थिन्द'. ५ ए पिछदन्तं. ६ बी ई य चाौ. ७ सी वास्वैरंरीस्त. ८ ए 'रंरीस्त. ९ डी 'स्तक्ष्णव. १. डी यन्नभीक. ११ बी सी डी ई न्यं ग्लेप. १२ ए समवि र. १३ ए बी सी 'णे डु. १४ सी म्मुखेन हम्मुवं. १५ सी डील्पन्. १६ सीन् । कथमि. १७ डीई ह । हो. बी ह । हे ह'. १८ डी किमि
४
.