________________
[ है ०४.२.१३.] अष्टमः सर्गः।
अचापयन् अचाययत् । स्फारयत् स्फोरयत् । इलात्र "चिस्फुरोर्न वा" [१२]
इत्याद्वा ॥
गाः प्रवापयति बलाकाः प्रवाययति । इत्यत्र "वियः प्रजने" [१३] इत्याद्वा॥ धन्व रोपयत रोहयतेषु मा विलीनयत सर्पिरिदानीम् । मा विलालयत वा नवनीतानीति सैन्धवजनैर्निरधोपि॥११५॥
११५. सैन्धवजनैः सिन्धुनिवासिलोकैरितीदं निरघोपि घोपितम्। तदेवाह । हे जना धन्व धनू रोपयत सज्यं कुरुत तथेपुं वाणं रोहयत संधत्तेदानी सर्पितं मा विलीनयताग्निसंपर्केण मा द्रवीकुरुत नवनीतानि वा मा विलालयतेति ।। भो विलापयत सर्पिरशङ्का एष सिन्धुमभिपालयितास्मि । पीणयञ्जनपदानिति धन्वोडूनयन्समिति हम्मुक आगात्॥११६॥
११६. हम्मुको हम्मुकाख्यः सिन्धुपति: समिति रण आगात् । कीटक्सन् । जनपदान्प्रीणयन् । कथमित्याह । भो जना अशङ्का निर्भयाः सन्तः सपिर्विलापयत द्रवीकुरुत यत एप प्रत्यक्षोस्म्यहं सिन्धुदेशमभिपालयिता स्वयमेव पायमानं सिन्धुं प्रयुञ्जानः सिन्धुरक्षाशीलोहं वर्त इत्यर्थ इति । तथा धन्वोद्धृनयन् गुणाकर्षणेन क. म्पयन् ॥ पाययत्स्वमभिधावयदद्रीन्वाजयद्भुवमपाययदोजः । छाययनमभिशायये वेत्थं जल्पदस्य च बलं प्रससार ॥ ११७ ॥
११७. अस्य हम्मुकस्य बलं प्रससार । कीटक्सत् । ओजो बल१ई य चेत्थं. २ वी य चेत्थं. १ई कैः रि. २ एपिघृतं. ३ सी डी पालय'.