________________
[ है०.४.१.८९. ] अष्टमः सर्गः।
६४१ आजुहाव । इत्यत्र "द्वित्वे हः” [ ८७ ] इति स्वृत् ॥ अनेनैव सिद्ध उत्तरसूत्रकरणं गैरन्यस्मिन्दुित्वनिमित्तप्रत्ययव्यवधायके स्वृन्मा भूदित्येवमर्थम् । तेनेह न भवति । आह्वायकमिच्छति आह्वायकीयति ततः सनि आजिह्वायकीयिपतः ॥
निरजूहवत् । आजुहावयिपति । इत्यत्र "णौ ङसनि" [८८ ] इति वृत् ॥ तेष्वशूशवदसौ क्षितिपाज्ञां सेतवे भृशमशिश्वयदोजः । ते शुशावयिपवश्च जयं शिश्वाययिप्वनुचराः स्म यतन्ते ॥ ९१॥
९१. असौ प्रतिहारस्तेषु चमूपेषु विपये क्षितिपाज्ञां वहबन्धविपयं भीमादेशमशूशवदगमयत् । ज्ञापितवानित्यर्थः । तथासौ सेतवे सेतुबन्धार्थ तेषु विपय ओज उत्साहमशिश्वयदवर्धयत् । ते च चमूपाः सेतवे यतन्ते स्म च । चो यौगपद्ये । यदैव प्रतिहारः क्षितिपाज्ञामशूशवत्तदैवोयेमुरित्यर्थः । यतः किंभूताः । जयं राज्ञो विजयं शुशावयिपवो विवर्धयिषवस्तथा जयं शिश्वीययिषवो विवर्धयिषवोचरा: सेवका येषां ते। सापेक्षत्वेप्यत्र गमकत्वात्समासः॥ ___ अशूशवत् अशिश्वयत् । शुशावयिपर्वः शिवाययिपु । इत्यत्र "श्वेर्वा" [८९] इति वा वृत् ॥
कथं कथं यतन्ते तत्राह। शिश्वियुः सपदि केपि दृपद्भ्यस्तत्र केपि शुशुवुश्व तरुभ्यः । शोशवीति हनुमान्स यथा किं शेश्वयीपि न तथेति वदन्तः।।९२॥
१ए डी सी श्वावयिः. २ डी शेश्चियी.
१ए तिप्राशां. २ सी डी श्वावयि. ३ डी वोनु. ४ई 'नुचाराः. ५ एवः शिश्वावयिषवः शि. ६ ए सी डी श्वावयि'. ७ ई तिव'. ८६°थं य. ९ ए यत्रन्ते. १० बी न्त्रा.
८१