SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ [ है ० ४.१.८०.] अष्टम: सर्गः। ६३७ सोपुपीत्यहिगणोनुतटं साप्ति नक्रनिचयोपि च यस्य । पर्यमुप्यत यमेन नु नासोपुप्यत क्षणममपुपदन्यः ॥ ८४ ॥ ८४. यस्य वहम्यानुतटं तटसमीपेहिगणः सोपुपीति निरुपद्रवत्वादत्यर्थं शेते । तथा नक्रनिचयोपि च सास्वप्ति । एतयोश्च मृत्युहे. तुत्वादुत्प्रेक्ष्यते । यमेन न्वनुतट पर्यसुप्यत शयितम् । अत एवान्योहिनकेभ्य इतरो नरादिर्यस्यानुतटं क्षणं क्षणमात्रमपि नासोपुप्यत मृत्युभयेन नात्यर्थमशेत । तथान्यो नासूपुपन्न च कं चन स्वापयामास ॥ सिन्धुराडसुषुपद्भयजीनो दुर्गमं यमजिनन्दिडविद्धः। आशु विध्यति च विद्विप उग्रोरुव्यचानु विचिता विचति स्म।।८५॥ ८५. सिन्धुराडसुपुपत्स्वापमकार्षीत् । कीहक्सन् । दुर्गमं दुःखेन गम्यं यं वहमजिनन्नत्यजन्नत एव द्विडविद्धो द्विद्भिरविद्धः पराभवेनापीडितोत एव भयजीनो भयरहितः । तथोग्रोरुव्यचा नु यथा प्रचण्डो वृश्चिको विद्विपः पदादिघटनेन स्वशत्रून्कण्टकेनातर्कितमेव विध्यति तथायं विद्विष आश्वतर्कितं विध्यति च तीत्रप्रहारादिना पीडयति च । तथा विचिता । अत्र तॄन् । श्वम्तन्यास्ता वा। वञ्चयते वञ्चयिष्यते वा। विचति स्मच्छलितवान् । एतदुर्गबलेनायं स्वयं सुखेन तिष्ठति शत्रूश्च पराभवतीत्यर्थः ।। असोपुप्यत । सोषुपीति । असूपुपत् । पर्यसुप्यत । इत्यत्र "स्वपेर्यो " [८० ] इति वृत् ॥ यङ्लुपि नेच्छन्त्यन्ये । सास्वप्ति ॥ घन्तादपि केचिदिच्छन्ति । असुषुपत् ॥ १ सी पी xxx ति निरु. २ ए स्वस्ति न'. १ ए मेव न्व. २ ए गम्य यं. ३ ए भवोना. ४ बी सी डी पादा. ५ सी 'नकण्ट'. ६ बीनू । स्वस्त. :
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy