________________
[ है.४.१.२४.] अष्टमः सर्गः।
६०९ रिसति । इत्यत्र “राधेर्वधे" [ २२ ] इति स्वरस्येन च द्विः ॥ वध इति किम् । आरिरात्सुः ॥
रेधतुः । रेधुः । रेधिथ । इत्यत्र "अवित्" [ २३ ] इत्यादिना स्वरस्यैन च द्विः ॥ अविदिति किम् । रराध ॥
विरेणुः । विरेणिथ । इत्यत्र "अनादेशादेः" [२४] इत्यादिनैन च द्विः॥ अनादेशादेरिति किम् । आबभणुः । बभणिय ।। तं चरौ रहसि भेजतुरन्येद्युः प्रफेलतुरिदं च वचस्तो । खेन फेलिथ विभेजिथं चाज्ञां यनिमित्तमवधारय तन्नौ ॥ ४०॥
४०. अन्येचू रहस्येकान्ते चरौ हेरिको तं भीमं भेजतुस्तथा तौ चराविदं वचः प्रफेलतुश्च । फलिरत्रान्तर्भूतणिगर्थः सकर्मकः । निष्पादितवन्तावूचतुरित्यर्थः । तदेवाह । हे राजन्यनिमित्तं यस्य कार्यस्य हेतोस्त्वं नावावयोः स्वेन धनेन कृत्वा फेलिथ फलितवानाज्ञामादेशं विभेजिथ च विभागेन दत्तवांश्च तदवधारय शृणु । आवयोस्त्वमवतेरिथ यस्मात्तेन तेरिव महीं किल पुण्डाः । पिरे न वचसाज्ञपयन्यत्स्वेनिथाईमथ सस्वनिथान्यत् ॥४१॥
४१. हे राजन्यस्मात्त्वमावयोरवतेरिथ धनादि दत्तवांस्तेन हेतुनावां महीं तेरिव तीर्थों परिभ्रान्तावित्यर्थः । किलेति सत्ये । यदहमुचितं संदेशाद्याज्ञपयंस्त्वं स्वेनिथावोचोथाथ वान्यदनहं दण्डादिकमांझ
१ सी च सौ । स्वे'. २ सी भेमिथ. ३ सी डाय वा.
१बी रिच्छति. २ बी अविव ई. ३ ए निष्कादि. ४ बी रिभ्रातावि. ५५ सी डी पाशाप. ६ डी निथ वाचोचिया . ७ बी बोचाषा'. ८डी कर्म ज्ञाप'. ९ए सी माशाप'.