________________
६००
व्याश्रयमहाकाव्ये
[ भीमराजः ]
ते स्म किल गौः स्वयमस्मिन्पर्यवारयत चास्य चमूस्ताम् । मच्छिनत्ति युधि साध्वसिरस्येयाज चारिरुधिरेण कृतान्तम्
॥ २६ ॥
२६. किलेति सत्ये । अस्मिन्नृपे सति गौः पृथ्वी प्रेस्नुते स्म । नौति स्माक्षारयद्रां रत्नान्ययमेवं न । किं तु स्वयमेव प्रस्नुते स्म । सुप्रभोरस्यानुरागेण स्वयमेव रत्नादिदानोन्मुखी बभूव । तथास्य भीमस्य चमूश्च तां गां पर्यवारयत । पर्यवारयत्तां चम्वा कृत्वायमेवं न । किं तु चमूः स्वयं तां पर्यवारयत रक्षार्थमेतच्चमूः पृथ्वीं परिवेष्टितवती - त्यर्थः । एतेन पृथ्वीभीमयोर्मिथ उपकार उक्तः । परिवृत्तिरलंकारः । तथाम्यांसिः खड्गो युधि साधु क्षत्रियोचितं यथा स्यादेवं छिनत्ति स्म । असिना सार्धुच्छिनत्ययमरीनेवं न । किं तु साध्वसिश्छिनत्ति स्म स्वयमेव । अत एव चास्यासिर रिरुधिरेण कृत्वा कृतान्तमियाजा - पूजयत् ॥
कोपि नाचकमतापनिनायाप्याचकाणादिह राशि परस्त्रीम् । नीतिवर्त्मनि यदेष जजागारातितिक्षत च न कचिदागः ॥ २७ ॥
२७. इहास्मिन् राज्ञि सति कोपि परखीं नाचकमत नेयेष तथा नापनिनाय नापजहे नाचकाणदपि । अपिः समुच्चये । कामवशादार्तस्वरपूर्वं नाशब्दाययेत् । एतेन परस्त्रीविषया मन: कायवचसां निवृत्तिरुक्ता । यद्यस्माद्धेतोरेष भीमो नीतिवर्त्मनि न्यायमार्गे जजागारोद्यतोभूत् । तथा कचिन्मित्रादावप्यागोपराधं नातितिक्षत नासहते ||
१ ए प्रश्नुते.
१ डी पृथ्वी: पृस्नु .
२ बी प्र. ३ बी प्रश्नौति ४ बी वृत्तिर. ६ ए सं तथा.
७ बी ई 'धु मच्छि. ८ ए सी अपि
ब्दायत्.
५ ए "स्यासिन'.
स ं
९ डी.
१० सी डी यत । ए. ११ बी. 'हव ॥