________________
५८६
व्याश्रयमहाकाव्ये
[ भीमराजः]
दस्यावाहसाता लगुडादिप्रहारैराहते । अवाग्रहीषातां च कारागृहादौ निक्षेपेण प्रतिवद्धे च । न्यग्राहिषातां च सर्वस्वाद्यपहारेण दण्डिते च । तथा नास्तिकत्वेन यैः पुण्याघे धर्माधौं नादर्शिपातां न ज्ञाते । तथा निजान्यावात्मपरौ नादृक्षातां वलाद्यवलेपान्धतया स्वमात्रां परमात्रां च ये नाजानन्नित्यर्थः । अत एवानेन लक्ष्मीः प्रसन्नानुग्रहपरा साक्षाद्दर्शिषीष्ट दृश्यताम् । तथा सा प्रसिद्धा ब्रह्मकन्यापि सर• स्वती च तुष्टा साक्षादृक्षीष्ट । तथा धर्मश्चानुपाहिषीष्टानुकूलाचरणेनानुगृह्यताम् । तथेन्द्र शक्रविषये मैत्री च ग्रहीषीष्टाङ्गीक्रियतामिति ।। उदपादि । इत्यत्र “भिच्ते" [६६] इत्यादिना जिच्तलुक्क ॥
भत्यदीपि अदीपिष्ट । अजनि अजनिष्ट । अबोधि व्यबुद्ध । अपूरि अपूरिष्ट । अतायि अतायिष्ट । अप्यायि अप्यायिष्ट । इत्यत्र “दीपजन" [६७] इत्यादिना वा जिच्तलुक ॥ व्यजृम्भि । अभाजि । इत्यत्र "भाव" [६८] इत्यादिना जिच्तलुक ॥
चायिज्यते चेष्यते। आचायिषाताम् आचेषाताम् । चायिषीष्ट चेपीष्ट। चायिता घेता । प्राहिष्यन्ते विग्रहीष्यन्ते । न्यग्राहिषाताम् अवाग्रहीषाताम् । अनुग्राहिषीष्ट ग्रहीषीष्ट । ग्राहिता ग्रहीता। दर्शिष्यते द्रक्ष्यते । अदर्शिषाताम् अदृक्षाताम्। दर्शिपीट क्षीष्ट । दर्शिता द्रष्टा । घानिष्यन्ते निहणिष्यन्ते । आधानिषाताम् भाहसाताम् । पानिपीरन् । घानिता हन्ता । इत्यत्र "स्वरग्रह"[६९] इत्यादिना वा निट् ॥ इन्वेस्वाशिषि विकल्पोदाहरणं स्वयं ज्ञेयम् ॥
१बी बहा. २ डी ण्यार्थे ध'. ३ डी स्वमन्यं च. ४ डी साक्षी ५ सी डी च गृही. ६बी "निघते. ७ बी ना नि. ८ ई 'लुक्पा ॥ न्य. ९ सी डी °ते । मचा. १० एट ग्राही. ११ सी डी निरिणि. १२बीई न्ते । अषा.