________________
[ है० १.३.२. ]
प्रथमः सर्गः ।
न यो मात्रझमात्राभिज्ञः सोपि क्षणाद्भवेत् ।
ज्ञाता षण्णां दर्शनानामस्मिन्वायसद्मनि ॥ ३९ ॥
३९. यो नरो न हल्मात्रझल्मात्राभिज्ञः । हल् व्यञ्जनम् । हलेव हल्मात्रम् । झल् धुट् । झलेव झल्मात्रम् । मात्रशब्दोत्र स्वार्थ एव । द्वन्द्वे । तयोरभिज्ञो ज्ञाता न स्यात् । यो व्यञ्जनधुट्संज्ञामपि न वेत्तीत्यर्थः । सोप्यस्मिन्पुरे षण्णां षटुंख्यानां दर्शनानां जैन १ बौद्ध२ सांख्य ३ वैशेषिक ४ नैयायिक ५ जैमिनीय ६ मतसंबन्धिनां तत्तत्तत्त्वदेवताप्रमाणादिप्रकाशकशास्त्राणां क्षणाज्झटिति ज्ञाता भवेत् । यतः किंभूतेस्मिन् । वाङ्मयसद्मनि वाचां विकारोवयवो वा वाङ्मयं व्याकरणतर्कसिद्धान्तसाहित्यादिसर्वशास्त्राणि । तच्च पुरुषविशेषं पुस्तकादि चाधारं विना नावतिष्ठत इत्यर्थाद्वाङ्मयस्य वाङ्मयवतां पुरुषविशेषपुस्तकादीनां सद्मनि गृहे सर्वशास्त्रपाठसामग्र्योपेत इत्यर्थः ॥
३१
૪
१ बी तत्तत्त्व. २ एफ ज्झटति. ३ सी डी 'वो वा ५ बी सी डी एफ र्मुखः ।. ६ डी के चानु . ७ एफ ● मात्रम् ।. ९डीयः . एफ
.
सुवाडवते । द्विडूयेत । णिद्वन्द्वित् । समुख । एतण्णिद्वत् । शङ्काभाग्ण । एतस्यायान् । उद्गम्य । षण्मुखौ । उननाः । इत्यत्र " तृतीयस्य पञ्चमे” [१] इति घानुनासिकः ॥ तृतीयस्येति किम् । चतुर्मुखे ॥ पञ्चम इति किम् । क्षणाद्भवेत् । केचित्तु व्यञ्जनस्य स्थानेनुनासिके' बानुनासिकमिच्छन्ति । तस्य च "हवाडूजनो द्वे” [१. ३. २७] इति द्वित्वं च नेच्छन्ति । तन्मते । हमात्र झमात्र ॥ वार्ष्णेय । षण्णाम् । इत्यत्र "प्रत्यये च " [२] इति नित्यमनुनासिकः ॥ पदान्त इत्येव । सद्मनि ॥
४ बी 'दि बाधा.
ल्मात्रं झ ८ एफ
•