________________
[ ६० ३.४.४२. ]
सप्तमः सर्गः ।
संभाण्डयन्ते सचीवरयमाणा मखाय ये ।
ते मन्त्रयन्तो ब्रह्माणस्तयोः पाणी अमिश्रयन् ॥ ११० ॥ ११०. ते ब्रह्माणो द्विजा मन्त्रयन्तो विवाहोचितमब्रानाचक्षाणाः सन्तस्तयोर्वधूत्ररयोः पाणी अमिश्रयन् संयुक्तीचक्रुः । ये यागेषु सदोद्यतत्वान्मखाय यागार्थं संभाण्डयन्ते भाण्डानि यज्ञोपकरणानि समाचिन्वन्ति । किंभूताः । संचीवरयमाणाश्चीवरं वस्त्रं समाच्छादयन्तो यजमानेभ्यो भिक्षयोपार्जयन्तो वा ॥
संभाण्डयन्ते । अत्र “भाण्डात् " [ ४० ] इत्यादिना णि ॥ संचीवरयमाणाः । अत्र " चीवरात्" [ ४१] इत्यादिना णि ॥ अमिश्रयन् । मन्नयन्तः । अत्र “णिच्” [ ४२ ] इत्यादिना णित् ॥ ये पयो व्रतयन्त्यन्नं व्रतयन्ति च ये द्विजाः । वेदापयन्तस्ते चक्रुर्मधुपर्कादिकं तयोः ॥ १११ ॥
५६९
२
१११. ते द्विजा वेदापयन्तो वेदमाचक्षाणास्तयोर्मधुपर्कादिकं मधुपर्क दना संपृक्तं मधु । तेनात्रोपचाराद्वधूवराभ्यां यन्मधुपर्कस्य प्राशनं तदुच्यते । तदादिर्यस्य प्रदक्षिणादापनादेर्विवाहाचारस्य तं चक्रुः । ये पयो दुग्धं व्रतयन्त्यस्माभिः पय एव भोक्तव्यमिति व्रतं कुर्वन्ति गृहन्ति वा तथा येन्नमस्माभिर्न भोक्तव्यमिति प्रतयन्ति च ॥ चौलुक्याय महेन्द्रीय सत्यापितमनोरथः ।
अर्थापयञ्श्वेतयन्नश्वयंस्तचचदा ददौ ॥ ११२ ॥
११२. अर्थ तथा तदा विवाहकाले सत्यापिताः परिपूर्णकरर्णेन
१ए पनोचते.
१ बी पकारक. २ ई संयुक्त. ३ सीडी च तदा. ४ च सत्लीकृत्वा म..
७२