________________
[ है• ३.३.४७.] सप्तमः सर्गः।
५२९ कल्प्तास्थ प्रभवोस्माकं भृत्या वः कल्पितास्महे ।
कामदक्रममाणानां समकामन्हदीति ते ॥ २७ ॥ २७. स्पष्टः । किं तु । कल्तास्थ संपत्स्यध्वे । ते कुमाराः । क्रामदक्रममाणानां कामन्तश्च गच्छन्तस्तरुणा अक्रममाणाश्चाजङ्गमा वृद्धाः । तेषां हृदि चित्ते समक्रामन्संक्रान्ताः । प्रभुत्वोचिताखिलगुणालंकृतत्वात्सचराचरलोकस्यापि चित्ते भाविप्रभुत्वेनामी प्रतिभासिता इत्यर्थः ।। कल्तास्थ कल्पितामहे । अत्र "कृपः श्वस्तन्याम्" [४६] इति वात्मने ॥
अक्रममाणानाम् कामत् । इत्यत्र "क्रमः" [४५] इत्यादिना वात्मने ॥ अनुपसर्गादिति किम् । समझामन् ॥
विनये क्रममाणानां शास्त्राय क्रमते स्म धीः ।
क्रममाणा च सा तेषां पराक्रमत सर्वतः ॥ २८ ॥ २८. तेषां कुमाराणां विनय उपाध्यायस्य नम्रतादिक्रियायां क्रममाणानामस्खलितात्मनामात्मानं यापयतां वा विनयपराणां सतामित्यर्थः । धीः शास्त्राय तर्कादिग्रन्थाय क्रमते स्मोत्सहते स्म तत्परा वानुज्ञाता वाभूत् । सा च तेषां धीः क्रममाणा शास्त्रार्थावगाहनास्फीतीभवन्ती संतानेन प्रवर्तमाना वामीभिरेवानुकूलाहाराद्यासवनेन पाल्यमाना वा सती सर्वतः सर्वकार्येषु पराक्रमताप्रतिहता भूदात्मानं यापितवती वोत्सहते स्म वा तत्परा वानुज्ञाता वाभूत्स्फीत्यभूदा संतानेन प्रावर्तिष्ट वा ।।
१ डी कं भूत्या. २ प त्या व क. १ सी कि तुः क. २ बी रुणा आक' ३ बी सी ई प: स्वस्त° ४ बी समाका. ५ डी नमनादि. ६ सीकीय प्र. ७ ए ते स्म. ८ सी सेवान. ९ सी वका'. १. ए पिभव'.