________________
५१.
व्याश्रयमहाकाव्ये [मूलराजः] सोगात्पुरी श्रीदसगानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥
१०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महर्दिकत्वादिना धनदतुल्यः सत्रलकासधमा सर्वर्युपेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगात् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सत्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदो नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ॥
सधर्माम् । सरूपः । अत्र "समानस्य" [१४९] इत्यादिना सः ॥ अन्ये सुधर्मादिषु नवसु पचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥
सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृशं सदृशं प्रतापैः सुतं नृपः शक्रसत्यधित्सत् । खर्गादनन्यादृश आत्मराज्येन्यारक्षमेतन्न हि तादृशानाम् ॥१०३॥
१०३. स्पष्टम् । किं तु । न्यधिसत्स्थापयितुमैच्छन् । स्वर्गादनन्यारशे महा स्वर्गतुल्ये । युक्तं चैतन् । हि यस्माद्धेतोरेतत् खौनुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजानां नान्यादृक्षं नीसदृशमुचितमेवत्यर्थः ॥
१९सी राजेन्या.
१सी तुल्या पु. २ पसीडी हिलपा. ३ सी सह ४५ सी रोय.टीरी। स. ५९सी स्वानरू. ६ी नान्यास'.